पृष्ठम्:मथुराविजयम्.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः सर्गः ।
घटमानदलाररीपुटं नलिनं मन्दिर मिन्दिरास्पदम् ।
परिपालयति स्म निक्वणन् परितो यामिकघन्मधुव्रतः ॥ १७ ॥
अधिपङ्कजकोशमादधे बहिरालीनमधुव्रतच्छलात् ।
मधुसौरभरक्षणोत्सुका दिनलक्ष्मीरिव लक्ष्म जातुषम् ॥ १८ ॥
दिनवेषमपास्य यामिनीवपुषा कालनटस्य नृत्यतः ।
ददृशे जगता पितृप्रसूर्दिवि नेपथ्यपटीव पाटला ॥ १९ ॥
रविरथ्यखुरोत्थितापरक्षितिभृङ्गैरिकरेणुशोणया |
क्षणमेकमकारि सन्ध्यया वरुणाशारुणकञ्चुकभ्रमः ॥ २० ॥
वियति व्यरुचन् पयोधराः स्फुटसन्ध्यापरिपाटलत्विषः ।
अचिरावतरद्विभावरीपदलाक्षा पटलानुकारिणः ॥ २१ ॥
नवपल्लवकोमलच्छविर्दिवि सान्ध्यो ददृशे महोभरः ।
(विनि? रवि) पातरयात् समुत्थितश्चरमाब्धेरिव विद्रुमोत्करः ॥ २२ ॥
उदियाय ततो दिगङ्गनाश्रवणाकल्पतमालपल्लवः ।
रजनी मुखपत्र लेखिकारचनारङ्कुमदम्तमोङ्कुरः ॥ २३ ॥
किमु धूमभरः प्रशाम्यतो द्युमणिग्रावगतस्य तेजसः ।
प्रससार दिशस्त मोमिषात् किमु मीलत्कमलालिसञ्चयः ॥ २४ ॥
हलिहेतिदलत्कलिन्दजालहरीकन्दलकालिमद्रुहः |
परितस्तरुरम्बरस्थलीं परितः स्थूलतमा स्तभोभराः ।। २५ ।।
नयनानि जनस्य तत्क्षणान्निरुणद्धि स्म निरन्तरं तमः ।
रविदीपभृताभृकर्परच्युतकालाञ्जनपुञ्जमेचकम् ॥ २६ ॥
तदमंसत मांसलं तमस्तनुतारागणबिन्दु जालकम् ।
दिवसात्यय चण्डताण्डवच्युतमीशस्य गजाजिनं जनाः ॥ २७ ॥