'अम्बा कुप्यति न मया न स्नुषया सापि नाम्बया न मया ।
अहमपि न तया न तया वद राजन्कस्य दोषोऽयम् ॥ ३०९ ॥
इति । राजा च दारिद्र्यदोषं ज्ञात्वा कविं पूर्णमनोरथं चक्रे ।
एकदा द्वारपाल आगत्य राजानं प्राह-'देव, कविशेखरो नाम महाकविर्द्वारि वर्तते । राजा-प्रवेशय' इत्याह । ततः कविरागत्य 'स्वास्ति' इत्युक्त्वा पठति-
'राजन्दौवारिकादेव प्राप्तवानस्मि वारणम् ।
मदवारणमिच्छामि त्वत्तोऽहं जगतीपते ॥ ३१० ॥
तदा प्राङ्मुखस्तिष्ठन्राजातिसन्तुष्टस्तं प्राग्देशं सर्वं कवये दत्तं मत्वा दक्षिणाभिमुखोऽभूत् । ततः कविश्चिन्तयति- किमिदम् | राजा मुखं परावृत्य मां न पश्यति' इति । ततो दक्षिणदेशे समागत्याभिमुखः कविः पठति-
'अपूर्वेयं धनुर्विद्या भवता शिक्षिता कथम् ।
मार्गणौघः समायाति गुणो याति दिगन्तरम् ॥ ३११ ॥
ततो राजा दक्षिणदेशमपि मनसा कवये दत्त्वा स्वयं प्रत्यङमुखोऽभूत् । कविस्तत्रागत्य प्राह-
'सर्वज्ञ इति लोकोऽयं भवन्तं भाषते मृषा ।
पदमेकं न जानीषे वक्तुं नास्तीति याचके' ॥ ३१२ ॥
ततो राजा तमपि देशं कवेर्दत्तं मत्वोदङमुखोऽभूत् । कविस्तत्राप्यागत्य प्राह-
'सर्वदा सर्वदोऽसीति मिथ्या त्वं कथ्यसे बुधैः ।
नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥ ३१३ ॥
ततो राजा स्वां भूमिं कविदत्तां मत्वोत्तिष्ठति स्म । कविश्च तदभिप्रायमज्ञात्वा पुनराह-
'राजन्कनकधाराभिस्त्वयि सर्वत्र वर्षति ।
अभाग्यच्छत्रसंछन्ने मयि नायान्ति बिन्दवः ॥ ३१४ ॥
तदा राजा चान्तःपुरं गत्वा लीलादेवीं प्राह-'देवि, सर्व राज्यं कवये दत्तम् । ततस्तपोवनं मया सहागच्छ' इति । अस्मिन्नवसरे विद्वान्द्वारि निर्गतः । बुद्धिसागरेण वृद्धामात्येन पृष्टः-'विद्वन् , राज्ञा किं दत्तम्