पृष्ठम्:भोजप्रबन्धः.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

 राजा तुष्ट आह-सुकवे, अदृष्टमपि परहृदयं कथं जानासि ! साक्षाच्छारदासि' इति मुहुर्मुहुः पादयोः पतति स्म ।

 एकदा धारानगरे प्रच्छन्नवेषो विचरन्कस्यचिद्वृद्धब्राह्मणस्य गृहं राजा मध्याह्नसमये गच्छंस्तत्र तिष्ठति स्म । तदा वृद्धविप्रो वैश्वदेवं कृत्वा काकबलिं गृह्णन्गृहान्निर्गत्य भूमौ जलशुद्धायां निक्षिप्य काकमाह्वयति स्म । तत्र हस्तविस्फालनेन हाहेतिशब्देन च काकाः समायाताः । तत्र कश्चित्काकस्तारं रारटीति स्म । तच्छ्रुत्वा तत्पत्नी तरुणी भीतेव हस्तं निजोरसि निधाय 'अये मातः' इति चक्रन्द । ततो ब्राह्मणः प्राह-'प्रिये साधुशीले, किमर्थं बिभेषि' इति । सा प्राह-'नाथ ! मादृशीनां पतिव्रतास्त्रीणां क्रूरध्वनिश्रवणं न सह्यम् ।' 'साधुशीले, तथा भवेदेव' इति विप्र आह । ततो राजा तच्चरितं सर्वं दृष्ट्वा व्यचिन्तयत्–'अहो, इयं तरुणी दुःशीला नूनम् । यतो निर्व्याजं बिभेति । स्वपातिव्रत्यं स्वयमेव कीर्तयति च । नूनमियं निर्भीका सती अत्यन्तं दारुणं कर्म रात्रौ करोत्येव । एवं निश्चित्य राजा तत्रैव रात्रावन्तर्हित एवातिष्ठत् । अथ निशीथे भर्तरि सुप्ते सा मांसपेटिकां वेश्याकरेण वाहयित्वा नर्मदातीरमगच्छत्। राजाप्यात्मानं गोपयित्वानुगच्छति स्म । ततः सा नर्मदां प्राप्य तत्र समागतानां ग्राहाणां मांसं दत्त्वा नदीं तीर्वा परतीरस्थेन शूलाग्रारोपितेन स्वमनोरमेण सह रमते स्म । तच्चरित्रं दृष्ट्वा राजा गृहं समागत्य प्रातः सभायां कालिदासमालोक्य प्राह-'सुकवे, शृणु-

  'दिवा काकरवाद्भीता'

ततः कालिदास आह-

    'रात्रौ तरति नर्मदाम् ।

ततस्तुष्टो राजा पुनः प्राह-

  'तत्र सन्ति जले ग्राहाः

ततः कविराह-

    'मर्मज्ञा सैव सुन्दरी' ॥ २९६ ॥

ततो राजा कालिदासस्य पादयोः पतति ।

 एकदा धारानगरे विचरन्वेश्यावीथ्यां राजा कन्दुकलीलातत्परां तद्भ्रमणवेगेन पादयोः पतितावतंसां काञ्चन सुन्दरीं दृष्ट्वा सभायामाह-