पृष्ठम्:भोजप्रबन्धः.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ध्यानारूढातिष्ठत् । ततो यदृच्छया समुत्थिते भर्तरि सा झटिति शिशुं जग्राह । तं च परं धर्ममालोक्य विस्मयाविष्टो नृपतिराह-'अहो, मम समं भाग्यं कस्यास्ति, यदीदृश्यः पुण्यस्त्रियोऽपि मन्नगरे वसन्ति' इति । ततः प्रातः सभायामागत्य सिंहासन उपविष्टो राजा कालिदासं प्राह- 'सुकवे, महदाश्चर्यं मया पूर्वेद्यू रात्रौ दृष्टमस्ति' इत्युक्त्वा राजा पठति- 'हुताशनश्चन्दनपङ्कशीतलः' । कालिदासस्ततश्चरणत्रयं झटिति पठति-

 'सुतं पतन्तं प्रसमीक्ष्य पावके न बोधयामास पतिं पतिव्रता ।
 तदाभवत्तत्पतिभक्तिगौरवाद्धुताशनश्चन्दनपङ्कशीतलः' ॥ २९२ ॥

 राजा च स्वाभिप्रायमालोक्य विस्मितस्तमालिङ्गय पादयोः पतति स्म ।

 एकदा ग्रीष्मकाले राजान्तःपुरे विचरन्घर्मतापतप्त आलिङ्गनादिकमकुर्वंस्ताभिः सह सरससंलापाद्युपचारमनुभूय तत्रैव सुप्तः । ततः प्रातरुत्थाय राजा सभां प्रविष्टः कुतूहलात्पठति-

 'मरुदागमवार्तयापि शून्यं समये जाग्रति सम्प्रवृद्ध एव ।'

भवभूतिराह-

  'उरगी शिशवे बुभुक्षवे स्वामदिशत्फूत्कृतिमाननानिलेन ।
  मरुदागमवार्तयापि शून्ये समये जाग्रति सम्प्रवृद्ध एव' ॥ २९३ ॥

 राजा प्राह-'भवभूते, लोकोक्तिः सम्यगुक्ता' इति । ततोऽपाङ्गेन राजा कालिदासं पश्यति । ततः स आह-

  'अबलासु विलासिनोऽन्वभूवन्नयनैरेव नवोपगूहनानि ।
  मरुदागमवार्तयापि शून्ये समये जाग्रति सम्प्रवृद्ध एव' ॥ २९४ ॥

 तदा राजा स्वाभिप्रायं ज्ञात्वा तुष्टः कालिदासं विशेषेण सम्मानितवान् ।

 अन्यदा मृगयापरवशो राजात्यन्तमार्तः कस्यचित्सरोवरस्य तीरे निबिडच्छायस्य जम्बूवृक्षस्य मूलमुपाविशत् । तत्र शयाने राज्ञि जम्बोरुपरि बहुभिः कपिभिर्जम्बूफलानि सर्वाण्यपि चालितानि । तानि सशब्दं पतितानि पश्यन्घटिकामात्रं स्थित्वा श्रमं परिहत्य उत्थाय तुरङ्गमवरमारुह्य गतः । ततः सभायां राजा पूर्वानुभूतकपिचलितफलपतनरवमनुकुर्वन्समस्यामाह-'गुलुगुग्गुलुगुग्गुलु' । तत आह कालिदासः-

  'जम्बूफलानि पक्कानि पतन्ति विमले जले ।
  कपिकम्पितशाखाभ्यो गुलुगुग्गुलुगुग्गुलु' ॥ २९५ ॥