पृष्ठम्:भोजप्रबन्धः.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

  मेरौ मन्दरकन्दरासु हिमवत्सानौ महेन्द्राचले
  कैलासस्य शिलातलेषु मलयप्राग्भारभागेष्वपि ।
  सह्याद्रावपि तेषु तेषु बहुशो भोज श्रुतं ते मया
  लोकालोकविचारचारणगणैरुद्गीयमानं यशः' ॥ २७५ ॥

 ततश्चमत्कृतो राजा प्रत्यक्षरं लक्षं ददौ ।

 ततः कदाचिद्राजा विद्वद्वृन्दं निर्गतं कालिदासं चानवरतवेश्यालम्पटं ज्ञात्वा व्यचिन्तयत्-'अहह, बाणमयूरप्रभृतयो मदीयामाज्ञां व्यदधुः । अयं च वेश्यालम्पटतया ममाज्ञां नाद्रियते । किं कुर्मः' इति । ततो राजा सावज्ञं कालिदासमपश्यत् । तत आत्मनि राज्ञोऽवज्ञां ज्ञात्वा कालिदासो बल्लालदेशं गत्वा तद्देशाधिनाथं प्राप्य प्राह-'देव, मालवेन्द्रस्य भोजस्यावज्ञया त्वद्देशं प्राप्तोऽहं कालिदासनामा कविः' इति । ततो राजा तमासन उपवेश्य प्राह-'सुकवे, भोजसभाया इहागतैः पण्डितैः समुदितः शतशस्ते महिमा । सुकवे, त्वां सरस्वती वदन्ति । ततः किमपि पठ' इति । ततः कालिदास आह-

  'बल्लालक्षोणिपाल त्वदहितनगरे सञ्चरन्ती किराती
  कीर्णान्यादाय रत्नान्युरुतरखदिराङ्गारशङ्काकुलाङ्गी ।
  क्षिप्त्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती
  श्वासामोदानुयातैर्मधुकरनिकरैघूमशङ्कां बिभर्ति ॥ २७६ ॥

 ततस्तस्मै प्रत्यक्षरं लक्ष ददौ ।

 ततः कदाचिद्वल्लालराजा कालिदासं पप्रच्छ-'सुकवे, एकशिलानगरीं व्यावर्णय' इति । ततः कविराह-

  'अपाङ्गपातैरपदेशपूर्वैरेणीदृशामेकशिलानगर्याम् ।
  वीथीषु वीथीषु विनापराधं पदे पदे शृङ्खलिता युवानः' ॥ २७७ ॥

 पुनश्च प्रत्यक्षरलक्षं ददौ । पुनश्च पठति कविः-

 'अम्भोजपत्रायतलोचनानामम्भोधिदीर्घान्विह दीर्घिकासु ।
 समागतानां कुटिलैरपाङ्गैरनङ्गबाणैः प्रहता युवानः' ॥२७८ ॥

 पुनश्च बल्लालनृपः प्रत्यक्षरं लक्षं ददौ । एवं तत्रैव स्थितः कालिदासः ।

 अत्रान्तरे धारानगर्यां भोजं प्राप्य द्वारपालः प्राह- -'देव, गुर्जरदेशान्माघनामा पण्डितवर आगत्य नगराद्बहिरास्ते; तेन च स्वपत्नी राजद्वारि