राजा चमत्कृतस्तस्मै शताश्वान्ददौ । ततो भाण्डारिको लिखति-
'क्रीडोद्याने नरेन्द्रेण शतमश्वा मनोजवाः ।
प्रदत्ताः कामदेवाय सहकारतरोरधः' ॥ २२८ ॥
ततः कदाचिद्भोजो विचारयति स्म-मत्सदृशो वदान्यः कोऽपि नास्ति' इति । तद्गर्वं विदित्वा मुख्यामात्यो विक्रमार्कस्य पुण्यपत्रं भोजाय प्रदर्शयामास । भोजस्तत्र पत्रे किञ्चित्प्रस्तावमपश्यत् । तथाहि- विक्रमार्कः पिपासया प्राह-
स्वच्छं सज्जनचित्तवल्लघुतरं दीनार्तिवच्छीतलं
पुत्रालिङ्गनवत्तथैव मधुरं तद्बाल्यसञ्जल्पवत् ।
एलोशीरलवङ्गचन्दनलसत्कर्पूरकस्तूरिका-
जातीपाटलिकेतकैः सुरभितं पानीयमानीयताम् ॥ २२९ ॥
ततो मागधः प्राह-
'वक्त्राम्भोजं सरस्वत्यधिवसति सदा शोण एवाधरस्ते
बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः ।
वाहिन्यः पार्श्वमेताः कथमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं
स्वच्छे चित्ते कुतोऽभूत्कथय नरपते तेऽम्बुपानाभिलाषः' ॥ २३० ॥
ततो विक्रमार्कः प्राह । तथाहि-
'अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः
पञ्चाशन्मधुगन्धमत्तमधुपाः क्रोधोद्धताः सिन्धुराः ।
अश्वानामयुतं प्रपञ्चचतुरं वाराङ्गनानां शतं
दत्तं पाण्ड्यनृपेण यौतकमिदं वैतालिकायार्प्यताम् ॥ २३१ ॥
ततो भोजः प्रथमत एवाद्भुतं विक्रमार्कचरित्रं दृष्ट्वा निजगर्वं तत्याज । ततः कदाचिद्धारानगरे रात्रौ विचरन्राजा कंचन देवालये शीतालुं ब्राह्मणमित्थं पठन्तमवलोक्य स्थितः-
'शीतेनाध्युषितस्य माघजलवच्चिन्तार्णवे मज्जतः
शान्ताग्नेः स्फुटिताधरस्य धमतः क्षुत्क्षामकुक्षेर्मम ।
निद्रा काप्यवमानितेव दयिता सन्त्यज्य दूरं गता
सत्पात्रप्रतिपादितेव कमला नो हीयते शर्वरी' ॥ २३२ ॥
(१) आम्रवृक्षस्य ।