ताः। सा चात्यन्ततोषाच्चन्दनतरोर्निरुपमं गर्भखण्डं दत्त्वा यथास्थानं प्रपेदे । देवगुणाभिवर्णनप्राप्तं तदेतद्गृहाण । एतत्प्रमृतपरिमलभरेण भृङ्गाभुजङ्गाश्च समायान्ति ।' राजा तद्गृहीत्वा तुष्टस्तस्मै लक्षं दत्तवान् । ततो दामोदरकविस्तन्मिषेण राजानं स्तौति-
'श्रीमच्चन्दनवृत्त सन्ति बहवस्ते शाखिनः कानने
येषां सौरभमात्रकं निवसति प्रायेण पुष्पश्रिया ।
प्रत्यङ्गं सुकृतेन तेन शुचिना ख्यातः प्रसिद्धात्मना
योऽसौ गन्धगुणस्त्वया प्रकटितः कासाविह प्रेक्ष्यते ॥
राजा स्वस्तुतिं बुद्ध्वा लक्षं ददौ ।
ततो द्वारपाल आगत्य प्राह--'देव, काचित्सूत्रधारी स्त्री द्वारि वर्तते ।' राजा-'प्रवेशय ।' ततः सागत्य राजानं प्रणिपत्याह-
'बलिः पातालनिलयोऽधः कृतश्चित्रमत्र किम् ।
अधः कृतो दिविस्थोऽपि चित्रं कल्पद्रुमस्त्वया ॥ २२१ ॥
राजा तस्यै प्रत्यक्षरं लक्षं ददौ ।
ततः कदाचिन्मृगयापरिश्रान्तो राजा क्वचित्सहकारतरोरधस्तात्तिष्ठति स्म । तत्र मल्लिनाथाख्यः कविरागत्य प्राह-
'शाखाशतशतवितताः सन्ति कियन्तो न कानने तरवः ।
परिमलभरमिलदलिकुलदलितदलाः शाखिनो विरलाः' ॥ २२२ ॥
ततो राजा तस्मै हस्तवलयं ददौ ।
तत्रैवासीने राज्ञि कोऽपि विद्वानागत्य 'स्वस्ति' इत्युक्त्वा प्राह-- 'राजन् , काशीदेशमारभ्य तीर्थयात्रया परिभ्राम्यते क्षीणदेशवासिना मया ।' राजा-'भवादृशानां तीर्थवासिनां दर्शनात्कृतार्थोऽस्मि ।' स आह-वयं मान्त्रिकाश्च ।' राजा-'विप्रेषु सर्वं सम्भाव्यते ।' राजा पुनः प्राह-'विप्र, मन्त्रविद्यया यथा परलोके फलप्राप्तिः, तथा किमिहलोकेऽप्यस्ति ।' विप्रः-'राजन् , सरस्वतीचरणाराधनाद्विद्यावाप्तिर्विश्वविदिता । परं धनावाप्तिर्भाग्याधीना ।
गुणाः खलु गुणा एव न गुणा भूतिहेतवः ।
धनसञ्चयकतॄणि भाग्यानि पृथगेव हि ॥ २२३ ।।
देव, विद्यागुणा एवं लोकानां प्रतिष्ठायै भवन्ति । न तु केवलं