पृष्ठम्:भोजप्रबन्धः.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

 ततः सिंहासनमलङ्कुर्वाणे श्रीभोजनृपतौ द्वारपाल आगत्य प्राह-

 'राजन् कोऽपि शुकदेवनामा कविर्दारिद्र्यविडम्बितो द्वारि वर्तते । राजा बाणं प्राह–'पण्डितवर, सुकवे, तत्त्वं विजानासि ।' बाणः- शुकदेवपरिज्ञानसामर्थ्याभिज्ञः कालिदास एव, नान्यः । 'राजा- 'सुकवे, सखे कालिदास, किं विजानासि शुकदेवकविम् ।' इत्याह । कालिदासः-'देव,

  सुकविर्द्वितयं जाने निखिलेऽपि महीतले ।
  भवभूतिः शुकश्चायं वाल्मीकिस्त्रितयोऽनयोः' ।। १९१

ततो विद्वद्वन्दवन्दिता सीता प्राह-

  'काकाः किं किं न कुर्वन्ति क्रोङ्कारं यत्र तत्र वा ।
  शुक एव परं वक्ति नृपहस्तोपलालितः' ॥ १९२ ॥

ततो मयूरः प्राह-

  'अपृष्टस्तु नरः किञ्चिद्यो ब्रूते राजसंसदि ।
  न केवलमसम्मानं लभते च विडम्बनाम् ॥ १९३ ॥

देव, तथाप्युच्यते-

  का सभा किं कविज्ञानं रसिकाः कवयश्च के ।
  भोज किं नाम ते दानं शुकस्तुष्यति येन सः ॥ १९४ ॥

 तथापि भवनद्वारमागतः शुकदेवः सभायामानेतव्य एव ।' तदा राजा विचारयति शुकदेवसामर्थ्यं श्रुत्वा हर्षविषादयोः पात्रमासीत् । महाकविरवलोकित इति हर्षः । अस्मै सत्कविकोटिमुकुटमणये किं नाम देयमिति च विषादः । 'भवतु । द्वारपाल, प्रवेशय ।' तत आयान्तं शुकदेवं दृष्ट्वा राजा सिंहासनादुदतिष्ठत् । सर्वे पण्डितास्तं शुकदेवं प्रणम्य सविनयमुपवेशयन्ति । स च राजा तं सिंहासन उपवेश्य स्वयं तदाज्ञयोपविष्टः । ततः शुकदेवः प्राह–'देव, धारानाथ, श्रीविक्रमनरेन्द्रस्य या दानलक्ष्मीस्त्वामेव सेवते । देव, मालवेन्द्र एव धन्यः नान्ये भूभुजः, यस्य ते कालिदासादयो महाकवयः सूत्रबद्धाः पक्षिण इव निवसन्ति ।' ततः पठति-

  'प्रतापभीत्या भोजस्य तपनो मित्रतामगात् ।
  और्वो वाडवतां धत्ते तडित्क्षणिकतां गता' ॥ १९५ ॥

(१) नृपस्य हस्तेनोपलालितः ।