पृष्ठम्:भोजप्रबन्धः.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

   ततो नदीं समुत्तीर्णं शिरस्यारोपितेन्धनम् ।
   वेषेण ब्राह्मणं ज्ञात्वा राजा पप्रच्छ सत्वरम् ॥ १८४ ॥
   "कियन्मानं जलं विप्र'

स आह-'जानुदघ्नं नराधिप ।'
चमत्कृतो राजाह-'ईदृशी किमवस्था ते'
स आह-नहि सर्वे भवादृशाः' ॥ १८५ ॥
 राजा प्राह कुतूहलात्–'विद्वन्, याचस्व कोशाधिकारिणम् । लक्षं दास्यति मद्वचसा ।' ततो विद्वान्काष्ठं भूमौ निक्षिप्य कोशाधिकारिणं गत्वा प्राह-महाराजेन प्रेषितोऽहम् । लक्षं मे दीयताम् ।' ततः स हसन्नाह- विप्र, भवन्मूर्तिर्लक्षं नार्हति ।' ततो विषादी स राजानमेत्याह- 'स पुनर्हसति देव, नार्पयति ।' राजा कुतूहलादाह-'लक्षद्वयं प्रार्थय दास्यति ।' पुनरागत्य विप्रः 'लक्षद्वयं देयमिति राज्ञोक्तम्' इत्याह । स पुनर्हसति । विप्रः पुनरपि भोजं प्राप्याह-'स पापिष्ठो मां हसति नार्पयति । ततः कौतूहली लीलानिधिर्महीं शासञ्श्रीभोजराजः प्राह–'विप्र, लक्षत्रयं याचस्व । अवश्यं स दास्यति ।' स पुनरेत्य प्राह-राजा मे लक्षत्रयं दापयति । स पुनर्हसति । ततः क्रुद्धो विप्रः पुनरेत्याह-'देव, स नार्पयत्येव।

  राजन्कनकधाराभिस्त्वयि सर्वत्र वर्षति ।
  अभाग्यच्छत्रसंछन्ने मयि नायान्ति बिन्दवः ॥ १८६ ॥
  त्वयि वर्षति पर्जन्ये सर्वे पल्लविता द्रुमाः ।
  अस्माकमर्कवृक्षाणां पूर्वपत्रेषु संशयः ॥ १८७ ॥
  एकमस्य परमेकमुद्यम निस्त्रपत्वमपरस्य वस्तुनः ।
  नित्यमुष्णमहसा निरस्यते नित्यमन्धतमसं प्रधावति' ॥ १८८ ॥

ततो राजा प्राह-

  'क्रोधं मा कुरु मद्वाक्याद्गत्वा कोशाधिकारिणम् ।
  लक्षत्रयं गजेन्द्राश्च दश ग्राह्यास्त्वया द्विज' ॥ १८९ ॥

ततस्त्वङ्गरक्षकं प्रेषयति । ततः कोशाधिकारी धर्मपत्रे लिखति-

  'लक्षं लक्षं पुनर्लक्षं मत्ताश्च दश दन्तिनः ।
  दत्ता भोजेन तुष्टेन जानुदघ्नप्रभाषणात् ॥ १९० ॥