तस्याग्रे फणिपुङ्गवं तदुपरि स्फारं सुधादीधितिम् ॥ ८४ ॥
स्वर्गाद्गोपाल कुत्र व्रजसि सुरमुने भूतले कामधेनो-
र्वत्सस्यानेतुकामस्तृणचयमधुना मुग्ध दुग्धं न तस्याः।
श्रुत्वा श्रीभोजराजप्रचुरवितरणं व्रीडशुष्कस्तनी सा
व्यर्थो हि स्यात्प्रयासस्तदपि तदरिभिश्चर्वितं सर्वमुाम् ॥ ८५ ॥
तुष्टो राजा प्रत्यक्षरं लक्षं ददौ ।
ततः कदाचिच्छ्रुतिस्मृतिपारंगताः केचिद्राजानं कवित्वप्रियं ज्ञात्वा क्वचिन्नगराद्बहिः भुवनेश्वरीप्रसादेन कवित्वं करिष्यामः' इत्युपविष्टाः । तेष्वेकेन पण्डितम्मन्येनैकश्चरणोऽपाठि-
'भोजनं देहि राजेन्द्र'
इति । अन्येनापाठि- 'घृतसूपसमन्वितम् ।'
इति । उत्तरार्धं न स्फुरति । ततो देवताभवनं कालिदासः प्रणामार्थमगात् । तं वीक्ष्य द्विजा ऊचुः--'अस्माकं समग्रवेदविदामपि भोजः किमपि नार्पयति । भवादृशां हि यथेष्टं दत्ते । ततोऽस्माभिः कवित्वविधानधियात्रागतम् । चिरं विचार्य पूर्वार्धमभ्यधायि, उत्तरार्धं कृत्वा देहि । ततोऽस्मभ्यं किमपि प्रयच्छति ।' इत्युक्त्वा तत्पुरस्तादर्धमभाणि । स च तच्छ्रुत्वा।
'माहिषं च शरच्चन्द्रचन्द्रिकाधवलं दधि' ॥ ८६ ॥
इत्याह । ते च राजभवनं गत्वा दौवारिकानूचुः 'वयं कवितां कृत्वा समागताः । राजानं दर्शयत' इति । ते च कौतुकाद्धसन्तो गत्वा राजानं प्रणम्य प्राहुः--
'राजमाषनिभैर्दन्तैः कटिविन्यस्तपाणयः ।
द्वारि तिष्ठन्ति राजेन्द्र च्छान्दसाः श्लोकशत्रवः' ॥ ८७ ॥
इति । राज्ञा प्रवेशितास्ते दृष्टराजसंसदो मिलिताः सन्तः सहैव कवित्वं पठन्ति स्म । राजा तच्छ्रुत्वोत्तरार्धं कालिदासेन कृतमिति ज्ञात्वा(१) पण्डितमात्मानं मन्यते तेन । "आत्ममाने खच" इति खश "खि- त्यनव्ययस्य” इति मुम् । २भो००