पृष्ठम्:भोजप्रबन्धः.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नदीपुलिने नीतः । 'योगिना भोजो जीवितः' इति प्रथा च समभूत् । ततो गजेन्द्रारूढो बन्दिभिः स्तूयमानो भेरीमृदङ्गादिघोषैर्जगद्वधिरीकुर्वन्पौरामात्यपरिवृतो भोजराजो राजभवनमगात् । राजा च तमालिङ्गय रोदिति । भोजोऽपि रुदन्तं मुञ्जं निवार्यास्तौषीत् । ततः सन्तुष्टो राजा निजसिंहासने तस्मिन्निवेशयित्वा छत्रचामराभ्यां भूषयित्वा तस्मै राज्यं ददौ । निजपुत्रेभ्यः प्रत्येकमेकैकं ग्रामं दत्त्वा परमप्रेमास्पदं जयन्तं भोजनिकाशे निवेशयामास । ततः परलोकपरित्राणो मुञोऽपि निजपट्टराज्ञीभिः सह तपोवनभूमिं गत्वा परं तपस्तेपे । ततो भोजभूपालश्च देवब्राह्मणप्रसादाद्राज्यं पालयामास ।

   इति भोजराजस्य राज्यप्राप्तिप्रबन्धः ।

ततो मुञ्जे तपोवनं याते बुद्धिसागरं मुख्यामात्यं विधाय स्वराज्यं बुभुजे भोजराजभूपतिः । एवमतिक्रामति काले कदाचिद्राज्ञा क्रीडतोद्यानं गच्छता कोऽपि धारानगरवासी विप्रो लक्षितः । स च राजानं वीक्ष्य नेत्रे निमील्यागच्छन्राज्ञा पृष्टः- 'द्विज, त्वं मां दृष्ट्वा न स्वस्तीति जल्पसि । विशेषेण लोचने निमीलयसि । तत्र को हेतुः' इति । विप्र आह- 'देव, त्वं वैष्णवोऽसि । विप्राणां नोपद्रवं करिष्यसि ततस्त्वत्तो न मे भीतिः। किं तु कस्मैचित्किमपि न प्रयच्छसि; तेन तव दाक्षिण्यनामानं नास्ति । अतस्ते किमाशीर्वचसा । किं च प्रातरेव कृपणमुखावलोकनात्परतोऽपि लाभहानिः स्यादिति लोकोक्त्या लोचने निमीलिते ।

अपि च-प्रसादो निष्फलो यस्य कोपश्चापि निरर्थकः ।
  न तं राजानमिच्छन्ति प्रजाः षण्ढमिव स्त्रियः ॥ ४७ ॥
  अप्रगल्भस्य या विद्या कृपणस्य च यद्धनम् ।
  यच्च बाहुबलं भीरोर्व्यर्थमेतत्त्रयं भुवि ॥ ४८ ॥

 देव, मत्पिता वृद्धः काशीं प्रति गच्छन्मया शिक्षा पृष्टः- 'तात, मया किं कर्तव्यम्' इति । पित्रा चेत्थमभ्यधायि-

  'यदि तव हृदयं विद्वन्सुनयं स्वप्नेऽपि मा स्म सेविष्ठाः ।
  सचिवजितं षण्ढजितं युवतिजितं चैव राजानम् ॥ ४९ ॥
  पातकानां समस्तानां द्वे परे तात पातके ।
  एकं दुःसचिवो राजा द्वितीयं च तदाश्रयः ॥ ५० ॥