पृष्ठम्:भोजप्रबन्धः.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

क्षिप्य भोजं ररक्ष । स्वयमेव कृत्रिमविद्याविद्भिः सुकुण्डलं स्फुरद्वक्त्रं निमीलितनेत्रं भोजकुमारमस्तकं कारयित्वा तच्चादाय कनिष्ठो राजभवनं गत्वा राजानं नत्वा प्राह-'श्रीमता यदादिष्टं तत्साधितम्' इति । ततो राजा च पुत्रवधं ज्ञात्वा तमाह-'वत्सराज, खड्गप्रहारसमये तेन पुत्रेण किमुक्तम्' इति । वत्सस्तत्पत्रमदात् । राजा स्वभार्याकरेण दीपमानीय तानि पत्राक्षराणि वाचयति-

  'मान्धाता च महीपतिः कृतयुगालङ्कारभूतो गतः
  सेतुर्येन महोदधौ विरचितः कासौ दशास्यान्तकः ।
  अन्ये चापि युधिष्ठिरप्रभृतयो याता दिवं भूपते
  नैकेनापि समं गता वसुमती मुञ्ज त्वया यास्यति ॥ ३८ ॥

 राजा च तदर्थं ज्ञात्वा शय्यातो भूमौ पपात । ततश्च देवीकरकमलचालितचेलाञ्चलानिलेन ससंज्ञो भूत्वा 'देवि, मा मां स्पृश हा हा पुत्रघातिनम्' इति विलपन्कुरर इव द्वारपालानानाय्य 'ब्राह्मणानानयत' इत्याह । ततः स्वाज्ञया समागतान्ब्राह्मणान्नत्वा 'मया पुत्रो हतः, तस्य प्रायश्चित्तं वदध्वम्' इति वदन्तं ते तमूचुः-'राजन् , सहसा वह्निमाविश' इति । ततः समेत्य बुद्धिसागरः प्राह–'यथा त्वं राजाधमः, तथैवामात्याधमो वत्सराजः । तव किल राज्यं दत्त्वा सिन्धुलनृपेण तेन त्वदुत्सङ्गे भोजः स्थापितः । तच्च त्वया पितृव्येणान्यत्कृतम् ।

  कतिपयदिवसस्थायिनि मदकारिणि यौवने दुरात्मानः ।
  विदधति तथापराधं जन्मैव यथा वृथा भवति ॥ ३९ ॥
  सन्तस्तृणोत्सारणमुत्तमाङ्गात्सुवर्णकोट्यर्पणमामनन्ति ।
  प्राणव्ययेनापि कृतोपकाराः खलाः परे वैरमिवोद्वहन्ति ॥ ४० ॥
  उपकारश्चापकारो यस्य व्रजति विस्मृतिम् ।
  पाषाणहृदयस्यास्य जीवतीत्यभिधा मुधा ॥ ४१ ॥
  यथाङ्कुरः सुसूक्ष्मोऽपि प्रयत्नेनाभिरक्षितः ।
  फलप्रदो भवेत्काले तथा लोकः सुरक्षितः ॥ ४२ ॥
  हिरण्यधान्यरत्नानि धनानि विविधानि च ।
  तथान्यदपि यत्किञ्चित्प्रजाभ्यः स्युर्महीभृताम् ॥ ४३ ॥
  राज्ञि धर्मिणि धर्मिष्ठाः पापे पापपराः सदा ।