पृष्ठम्:भोजप्रबन्धः.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

  अद्याप्युज्झति नैव दैवविहितं क्षण्यं क्षपावल्लभः
  केनान्येन विलङ्घयते विधिगतिः पाषाणरेखासखी ॥ २९ ॥
  विकटोर्व्यामप्यटनं शैलारोहणमपान्निधेस्तरणम् ।
  निगडं गुहाप्रवेशो विधिपरिपाकः कथं नु सन्तार्यः ॥ ३० ॥
  अम्भोधिः स्थलतां स्थलं जलधितां धूलालवः शैलतां
  मेरुर्मत्कुणतां तृणं कुलिशतां वज्रं तृणप्रायताम् ।
  वह्निः शीतलतां हिमं दहनतामायाति यस्येच्छया
  लीलादुर्ललिताद्भुतव्यसनिने देवाय तस्मै नमः' ॥ ३१ ॥

 ततो वटवृक्षस्य पत्र आदायैकं पुटीकृत्य जङ्गां छुरिकया छित्त्वा तत्र पुटके रक्तमारोप्य तृणेनैकस्मिन्पत्रे कञ्चन श्लोकं लिखित्वा वत्सं प्राह-- "महाभाग, एतत्पत्रं नृपाय दातव्यम् । त्वमपि राजाज्ञां विधेहि' इति । ततो 'वत्सराजस्यानुजो भ्राता भोजस्य प्राणपरित्यागसमये दीप्यमानमुखश्रियमवलोक्य प्राह--

  'एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः ।
  शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ॥ ३२ ॥
  न ततो हि सहायार्थे माता भार्या च तिष्ठति ।
  न पुत्रमित्रौ न ज्ञातिर्धर्मस्तिष्ठति केवलः ॥ ३३ ॥
  बलवानप्यशक्तोऽसौ धनवानपि निर्धनः।
  श्रुतवानपि मूर्खश्च यो धर्मविमुखो जनः ॥ ३४ ॥
  इहैव नरकव्याधेश्चिकित्सां न करोति यः ।
  गत्वा निरौषधस्थानं स रोगी किं करिष्यति ॥ ३५ ॥
  जरां मृत्युं भयं व्याधिं यो जानाति स पण्डितः ।
  स्वस्थस्तिष्ठेन्निषीदेद्वा स्वपेद्वा केनचिद्धसेत् ॥ ३६ ॥
  तुल्यजातिवयोरूपान्हृतान्पश्यति मृत्युना ।
  नहि तत्रास्ति ते त्रासो वज्रवद्धृदयं तव' ॥ ३७ ॥

 इति । ततो वैराग्यमापन्नो वत्सराजो भोजं 'क्षमस्व' इत्युक्त्वा प्रणम्य तं च रथे निवेश्य नगराद्बहिर्घने तमसि गृहमागमय्य भूमिगृहान्तरे नि-(१) चन्द्रमाः इति यावत् ।