पृष्ठम्:भोजप्रबन्धः.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

 इति राजानं प्राह । ततो राजापि विप्रस्याहम्भावमुद्रया चमत्कृतां तद्वार्तां श्रुत्वा 'अस्माकं जन्मारभ्यैतत्क्षणपर्यन्तं यद्यन्मयाचरितं यद्यत्कृतं तत्तत्सर्वं वदसि यदि, भवान्सर्वज्ञ एव' इत्युवाच । ततो ब्राह्मणोऽपि राज्ञा यद्यत्कृतं तत्तत्सर्वमुवाच गूढव्यापारमपि । ततो राजापि सर्वाण्यप्यभिज्ञानानि ज्ञात्वा तुतोष । पुनश्च पञ्चषट्पदानि गत्वा पादयोः पतित्वेन्द्रनीलपुष्यरागमरकतवैडूर्यखचितसिंहासन उपवेश्य राजा प्राह-

  'मातेव रक्षति पितेव हिते नियुङ्क्ते
   कान्तेव चाभिरमयत्यपनीय खेदम् ।
  कीर्तिं च दिक्षु विमलां वितनोति लक्ष्मीं
   किं किं न साधयति कल्पलतेव विद्या' ॥५॥

 ततो विप्रवराय दशाश्वाना जानेयान्ददौ ।

 ततः सभायामासीनो बुद्धिसागरः प्राह राजानम्- 'देव, भोजस्य जन्मपत्रिकां ब्राह्मणं पृच्छ' इति । ततो मुञ्जः प्राह-भोजस्य जन्मपत्रिकां विधेहि' इति । ततोऽसौ ब्राह्मण उवाच-'अध्ययनशालायां भोज आनेतव्यः' इति । मुञ्जोऽपि ततः कौतुकादध्ययनशालामलङ्कुर्वाणं भोजं भटैरानाययामास । ततः साक्षात्पितरमिव राजानमानम्य सविनयं तस्थौ । ततस्तद्रूपलावण्यमोहिते राजकुमारमण्डले प्रभूतसौभाग्यं महीमण्डलमागतं महेन्द्रमिव, साकारं मन्मथमिव, मूर्तिमत्सौभाग्यमिव, भोजं निरूप्य राजानं प्राह दैवज्ञः-'राजन् , भोजस्य भाग्योदयं वक्तुं विरिञ्चिरपि नालम्, कोऽहमुदरम्भरिब्राह्मणः । किञ्चित्तथापि वदामि स्वमत्यनुसारेण । भोजमितोऽध्ययनशालायां प्रेषय ।'ततो राजाज्ञया भोजे ह्यध्ययनशालां गते विप्रः प्राह-

  'पञ्चाशत्पञ्चवर्षाणि सप्तमासदिनत्रयम् ।
  भोजराजेन भोक्तव्यः सगौडो दक्षिणापथः ॥ ६ ॥

 इति । तत्तदाकर्ण्य राजा चातुर्यादपहसन्निव सुमुखोऽपि विच्छा-(१) ये कुलीनाः प्रशस्तजातिभवा अश्वास्ते आजानेयाः। अाजेन रूपेणा- नेयाः प्रापणीया इति विग्रहः । (२) विगता छाया विच्छायम् , “कुगतिप्रादयः" इत्यनेन समासः । “वि. भाषा सेनासुराच्छाया०" इत्यनेन नपुंसकत्वम् । ताहक वदनं यस्य स इति यावत् ।