पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अविद्यापपुराणार्थ:) २५३ नेिजकर्मभेदेन विभिन्नचिनैः सजतीयमेनदर्शनैः ! चित्तशब्दो बुद्धिपरः । बहुधाभ्युपेतं कार्याज्ञानयुक्तमिति । अस्मिन् पक्षे बहुधाभ्युपेतमित्यस्याििकृष्टत्वात् पक्षान्तरमाह--यद्वा देवाशिरीरभेदेति । जानीयविजातीयभेदविरहानु बाद इति ! * विज्ञानमेकम् ? इत्यर्थेन सञ्जातीयात्मभेदस्य, “सस्मान्न विज्ञानम् । इत्यर्थेगानात्मभूतविजातीयभेदस्य च निषिद्धत्या तन्निषेधनुवाद इत्यर्थः । स्वगत भेदरहित्यमुच्यत इति । तद्रदेव पूर्वार्धप्रतिपन्नमनूद्यत इत्यर्थः । द्वितीयपक्षे भप्यानुगुण्यमाह – एतदभिप्रायेण हीति । दशश्लोक्यामिति । विष्णुपुराणे द्वितीर्थेशे द्वादशाध्याये “इत्येष संनिवेशोऽयं पृथिव्या ज्योतिषां तथा । द्वीपानामुदधीनां च पर्वतानां च कीर्तितः । वर्षाणां च नदीनां च ये च तेषु वसन्ति वै । तेषां स्वरूपमाख्यातं संक्षेपः श्रूयतां पुनः ।। " इत्युपक्षिप्य * घट्टम्वु वैष्णवः कायतो विप्र वसुंधरा । पद्माकारा समुहूता पर्वताध्यादिसंयुतः। ज्योतींषि विष्णुर्मुबनानि विष्णुर्वन्ननि विष्णुर्गिरथेो दिशश्च । नद्यः समुद्राश्च स एव सर्वे यदस्ति यन्नास्ति च िवप्रवयै । ज्ञानस्वरुपो भगवान् यतोऽसाक्शेवमूर्तिर्न तु चस्तुभूतः । ततो हि शैलाव्धिधरादिभेदान् जानीहेि विज्ञानविजुम्भितानि । यदा तु शुद्धं निजरूपि सचैकर्मक्षये ज्ञानमपास्तदोपम् । सदा हि संकल्पतरोः फलानेि भवन्ति नो वस्तुषु वस्तुभेदाः । बस्त्वति किं कुत्रचिददिमध्यपर्यन्तहीनं सततैकरूपम् । थचान्यथात्वं द्विज याति भूयो न तत्तथा तत्र कुतो हि तरवम् ।। मही धटत्वं घटतः कपालेिका कपालिका चूरजस्ततोऽणुः । जनैः स्वकर्मस्तिमितात्मनिश्चयैरालक्ष्यते ब्रहैिं किमत्र वस्तु ।