पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनेिविरचिता तस्य हि व्यतिरेको वक्ष्यन इति । विज्ञानशब्दश्य “विज्ञानमेकं निजकर्मभेद इत्यत्रेव ब्रह्मस्वरूपज्ञानपरत्वे तद्यतिरेके पञ्चवट्यतिरेकप्रतिपाद्कस्य * यदा तुः शुद्धम् ? इत्यस्य लोकस्यासामञ्जस्यप्रसङ्गादिति भाव । ननु विज्ञाने = ब्रह्मणि विजुम्भितानि=कल्पितानीत्यर्थस्य वक्तुं शक्यत्वात् श्रीधरेण तथा व्याख्यातवाच कथं विज्ञानशब्दस्याविद्यार्थकत्वनिर्णय इत्याशङ्कयाह-विज्ञाने विलुम्भितानीतीति । अस्वारस्यादिति । “सप्तमी ? इति योगविभागाश्रयणेन सप्तमीसमासस्य क्रुिष्टत्वा दिति भाव । नपुंसकपदस्येति पाठः । नपुंसकान्तपदस्येति पाठे नपुंसकत्वद्योत कविभक्त्यन्तपदस्येत्यर्थः । पुंलिङ्गभेदशब्दविशेषणत्वायोगेनेति । “र्भि गात्रविनामे ? इत्यस्यांकर्मकतयः “गत्यर्थाकर्मक ? इति कर्तरि क्तन्तस्य व, ण्यन्तात् कर्मणि त्तान्तस्य वा विज़म्भितशब्दस्याश्रयणे वेिशेष्यनेिन्नतप्रसङ्गात्, * नपुंसके भावे क्तः ! इति भाबक्तान्तत्वपक्ष एव नपुंसकत्वस्य युक्तत्वाच्च भावप्रत्ययान्त एव विग्भितशब्दः । न च भेदानां कथं विजम्भणारूपधात्वर्थत्वमिति वाच्यम् उपचारेण तथा प्रयोगोपपत्ते । ततश्च भावप्रत्ययान्तत्वे सिद्धे विजुम्भणरूपस्य भावस्य कर्ताकाङ्काया एवोत्कटत्वादधिकरणाकाङ्कायां अतथात्वात् षष्ठीसमास एव युक्त इति भावः । बहुवचने न तात्पर्यमिति । प्रत्यक्षदिसिद्धबहुवानुवादित्वादिति भावः । जडोपलक्षित इति । देहान्तःकरणादिभिः परस्परव्यावृत्तया प्रतीते कस्मिन् आत्मवस्तुनीत्यर्थः । जडगतभेदा म संभवन्तीत्यर्थ इतेि । अन्तः करणाद्युपाधिप्रयुक्तभेदा न भवन्तीत्यर्थः । वस्तुभेदशब्दयोः कर्मधारयमभिप्रयन्नाह यद्वा एको वस्तुशब्द आकात्परं इति । यथमो वस्तुशब्दो जडपर इत्यभिप्राय:। अस्मिन् पक्षे कर्मप्रतिवद्धात्मनिश्चयैः सत्यत्वेनाऽऽलक्ष्यत इत्यस्य वक्तव्यतया सत्यत्वे नेत्यंशस्याध्याहारप्रसङ्गादुतरार्धस्य पूर्वाधैकवाक्यत्वाभावाचापिशब्दमात्रमध्याहृत्य व्या चष्ट – यद्वा न केवलमिति । तदुत्तरोत्तरभावीति । अनेन भाष्ये भेददर्शनं निमित्तं यस्थाज्ञानस्येतेि बहुव्रीहिरभिप्रेत इति भावः । असिन् पक्षे कार्याज्ञानं ममकारागद्वेषादि । तस्यापि पूर्वकमैवेत्यर्थ इति । न च भेददर्शननिमित्तका ज्ञाने भेददर्शनस्यैव हेतुत्वात् कथं कर्मणो हेतुत्वमिति वाच्यम्, मूलकारणं कर्मः वेत्यर्थात् । अस्मिन् पक्षे निजकर्ममेदविभिन्नचितैः बहुधाभ्युपेतमित्यस्यायमर्थ