पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचेिता प्रकाशाभाव एव तिरोधानम् । न च प्रकाशाप्रकाशयोर्विरोध ,. अप्रकाशस्यारोपित तयाऽविरुद्धत्वात् । 'त्वदुक्तमर्थ न जानमि' इत्यादौ श्रुत एवार्थे अज्ञातत्वस्याप्यनु भूयमानत्वाचेति चेत्-न । अधिष्ठानयाथात्म्येऽवभासमाने अप्रकाशकल्पनायां अप्यनु दयात् । वह्वावारोपितस्यावह्नित्वस्थ वह्निकार्याप्रतिबन्धकत्वात् प्रकाशारोपितस्या प्रकाशस्य प्रकाशकायप्रतिबन्धकत्वाच। 'त्वदुक्तमर्थे न जानामि ! इत्यादौ सत्ताव धारणात्मकज्ञानाभावविषयत्वेन प्रकाशाप्रकाशविरोधसाधकत्वाभावात् । अन्यथाँ 'घटः प्रकाशते, न प्रकाशते च ? इत्यनुभवापातात् । एतेन 'नास्ति, न प्रकाशते । इति विपरीतव्यवहारयोभ्यत्वमेवावरणमिति निस्तम्, विपरीतव्यवहारलक्षणावरणकल्पनाया अपि भासमानेऽधिष्ठाने असंभवात् । । आनन्दस्वरूपस्य भासमानत्वेन तदंशे आवरणस्य वक्तुमशक्यत्वाच्च । न चानवच्छिन्नानन्दाप्रकाशादावरणमस्तीति वाच्यम् आनन्दे भेदाभावेन तदस्फुरणस्य वक्तुमशक्यत्वात् । न च संसारदशायामानन्दे भासमानेऽप्यनवच्छेदो न भासत इति वाच्यम्, आनन्दस्य मोक्षकालीनस्य स्फुरणे सिद्धे अनवच्छेदांशस्यापुरुषार्थत्वात् तन्मते संसारमुक्त्योरविशेषसङ्गात् । न च निरतिशयानन्दास्फुरणस्फुरणाभ्यां संसारमुक्त्योर्विशेष्ठ इति वाच्यम्, अद्वैतिमते वैषयिकानन्दस्य ब्रह्मानन्दतिरिक्तस्याभावेनोत्कर्षापकर्षायोगात् । आनन्दो भासते चेत् स एव मुक्तिकालीनानन्द इति संसारमोक्षयोरानन्दानुभवे न वैषम्यं मृषावादिमते टुवचम् । न च-यथा त्वन्मते जीवस्वरूपानन्दस्य, कैवल्यदशायामनुभूयमानस्य च स्वरूपरूपत्वेनाभेदेऽपि स आनन्द आवृत एव तस्येदानीमसत्वव्यवहारात् साति शयानन्दो भातीत्यभ्युपगग्यते, एकमिहाव स्यादिति वाच्यम्-तत्रानन्दस्यैकत्वेऽपि 'तभिन्नानन्दे तीव्रत्वमन्दत्वदिभेदोऽस्ति, ततश् संसारदशायामानन्दे मन्दानुकूल्यं स्वरूपरूपज्ञानेन भासते, तद्वतीत्रानुकूल्यं तु कैवल्यदशायां धर्मभूतज्ञानेन भासत इति ह्यस्माकं प्रक्रिया । न तु तीब्रानुकूलत्वमपि स्वरूपरूपं स्वप्रकाशमित्यस्मभिरभ्युप गम्यते, येन दोषः स्यात् । तस्मात् तिरोधानं भासमानस्वरूपेऽनुपपन्नमिति भावः। (स्वरूपानुपपत्तिः) ज्ञातृत्वादीनां परमार्थतया हीति । अनुभूतेर्निराश्रयत्वे ज्ञातुरभावादेव ज्ञात्वदिरप्यपरमार्थो भवतीत्यर्थः । ननु 'निषिया निराश्रया.' इत्येतत्परम्तानु