पृष्ठम्:भारतानुवर्णनम्.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मतेऽस्मिन् ब्राह्मणमतवद् उपदिष्टाः । तथा स्वर्गनर को देवाः पुनर्जन्म निर्वाणापरनामा मोक्षश्च मते- ऽस्मिन्नभ्युपगम्यन्ते । किन्तु जन्तु हिंसयेश्वरयजनं यद् ब्राह्मणमतेऽङ्गीकृतं, तद् अस्मिन् मतेऽत्यन्तं निन्दि- तम् । सृगालवादसूत्रे महाराहुलसूत्रे च बुद्धमतस्य तत्त्वान्युपदिष्टानि । इदं मतं कलिवर्षीयस्य षड्विंशशतकस्योत्तरा- र्घेऽङ्कुरितं भिक्षुसङ्घस्य महतां राज्ञां च प्रयत्नाद् भार- तम् अखिलम् आक्रम्य चीनेषु जपानदेशे लङ्कायां च प्रचारम् अलभत । तद् अद्यत्वे भारते परं विरलं प्रचरति ॥ बद्धमुनिः पुरा नेपालेषु कपिलवस्तु नगरे शाक्यानां क्ष- त्रियाणां वंशे शुद्धोदनो नाम राजा बभूव । तस्य चिराय सन्ततिम् अभिलषतो मायादेव्यां सिद्धार्थो नाम सूनुः कलिवर्षे २५४४ तमेऽजायत । अयं वंश- 1. चतुश्चत्वारिंशदुत्तरपञ्चशताभिकडिसहस्रतमे । 9 ११ Digitized by Google