पृष्ठम्:भारतानुवर्णनम्.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१ यज्ञवेद्या निर्माण उपयोगाय क्षेत्रगणितम् आर्या ददृशुः । एतद् एव प्रमेयम् अधिकृत्य शुल्ब सूत्रं प्रवृत्तम् । तच्च कल्पसूत्रेऽन्तर्भवति । बीजगणितेऽङ्कगणिते चार्याणाम् असाधारण नैपुण्यम् । त एव जगति देशगुणितविद्याया उपज्ञा- तार आसन् । इयं बीजगणितं त्रिकोणगणितम् इ- त्येते विषयाः संस्कृताद् आरभभाषाम् उपसङ्क्रान्ताः । ततस्तत्सकाशाद् यौरोपैः प्रथमं विदिताः । यारोपैर- द्यत्वे दृष्टाः केचिद् गणितभेदाः ४२५१ तमवर्षजन्म- नि सिद्धान्तशिरोमणावुपलभ्यन्ते । ३ ६ किन्तु हिन्दूपज्ञं ज्यौतिषविज्ञानं क्षेत्रगणित- विज्ञानं च र्यवनैरभिवृद्धिं नीतम् | ३५७७ तमवर्ष- जन्मनार्यभटेन ३६०६ तमवर्षजातेन वराहमिहिरेण च ज्योतिस्तन्त्रं प्रपञ्चतम् । 1. दशगुणितविद्या = Decimal. 2. Arabic. 3. एकपञ्चाशदुत्त- रद्विशताधिक चतुम्सहस्रतम वर्षजन्मनि. 4. अस्य कर्ता भास्कराचार्यः. 5. यवना: = Greeks. 6. सप्तसप्तत्यधिकपञ्चशतोत्तरत्रिसहस्त्रतम वर्ष- जन्मना 7 षडुत्तरषद्शताधिकत्रिसहस्रतमत्रर्पजातेन । Digitized by Google