पृष्ठम्:भारतानुवर्णनम्.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० अतः पाण्डवानां कौरवाणां च कुरुक्षेत्रेऽति- भीषणं युद्धम् अवर्तत । तत्र श्रीकृष्णसाहाय्यात् कौ- रवान् निरवशेषं हत्वा पाण्डवा अखण्डं भारतसा- म्राज्यम् अलभन्त । किन्तु भूयिष्ठबन्धुविरहात् तेषां राज्यभोगवा- ञ्छा स्वल्पेनैव कालेन प्रनष्टाभवत् । ततः श्रीकृष्णे परमपदं प्रयाते पाण्डवाः सर्वे महाप्रस्थानेन पुण्यलोकं जग्मुः । एतया कथया राज्ञां बाल्य आयुधाभ्यास: स्त्रीणां सभासु प्रवेशः स्वयंवरश्च तेषु कालेप्वौत्सर्गिक आसीदिति जानीमः । ज्यौतिषं गणितं च. यज्ञकर्मणाम् अनुष्ठाने कालनियम आर्या- णाम् आवश्यकः । अतस्तैज्यौतिषस्य तत्त्वं स्वयम् उपज्ञातुम् आरब्धम्; कालेन च सम्यग् अवधारि- तम् । 1. General. 2. To invent. Digitized by Google