पृष्ठम्:भारतानुवर्णनम्.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आभ्यां हेतुभ्यां वृत्तीनां सन्तानेष्वनुवृत्ति का लेन ते नियमयामासुः । अनेन नियमेन ब्राह्मणजातिः क्षत्रियजातिर्वै श्यजाति: शूद्रजातिरिति चतस्रो जातयः सिद्धा बभू- वुः । अत एव वृत्तिभेदेन जातिभेदः कल्पित इति भारतम् आह । न चायं वर्णभेदः पूजाभेदस्य हेतुरपि सन् जनानां मिथः कलहम् ईर्ष्या वा जनयामास । ते हि वर्णाः स्वस्वकृत्यानि तथा निरवर्तयन्, यथा ते परस्परेण परस्परम् उपकृतम् एव मेनिरे । जनसमु दायस्य स्वास्थ्यं तृप्तिः सुखं च वर्णधर्मैरुपचितं ब भूव । जनस्य जातिमात्रेण नोत्कर्षो भवति; किन्तु जात्युचितैर्गुणैराचारैश्चेति खल्वार्या उद्घोषन्ति । 1. वृत्तीनां कुलानुवृत्तौ गुणदर्शनमेको हेतुः, वृत्तिसोष्ठवस्य स्वप्र- यनमात्रसाधानीयत्वमपरो हेतुः. 2. 'ब्रह्मणा पूर्वसृष्टं हि कर्मभि र्णतां गतम्' इति शान्तिपर्व १८८ अध्याये. 3. 'यस्य यल्ल- क्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् । यदन्यत्रापि दृश्येत तत् तेनैव विनिर्दिशेत्' इति श्रीभाग. ७. स्क. १२. अध्याये । Digitized by Google