५७ मुखाज्जातः, क्षत्रियो बाहोर्जातः, वैश्य ऊरोर्जातः, शूद्रः पादाज्जात इति वदता वेदेन प्रकाश्यते । कमेण पितृषु पुत्रान् स्वस्ववृत्तौ प्रोत्साहयत्सु ता वृत्तयः कालान्तरे कुलवृत्तयः सम्पन्नाः । वृत्तिपरि- ग्रहे कामचारस्तस्मिन्नपि काले स्थित एव । किन्तु कुलानुवृत्तौ वृत्तीनां गुणातिशयस्य दर्शनात् काम- चारापेक्षया कुलानुवृत्तौ जनानाम् अधिक आदर उपजात आसीत् । प्रायेण हि पुरुषाणां स्त्रीणां वा गुणा दोषाश्च सन्ततिम् उपसङ्क्रामन्तो दृश्यन्ते । गुणप्रत्याशया हि लोकः कुलीनं बहुमन्यते । व ● सर्वस्य च जगतस्तदा शिशुभावेऽस्थानाद् वृत्तीनां सौष्ठवं स्वप्रयत्नेन केवलम् आर्यैः साधनीयम् आसीत् । न हि त्रिसहस्रवर्षेभ्यः प्राक् प्रबुद्धा का चिद् मानुषजातिरार्यान् अन्तरेणाभवत् । 1. 'ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः । पद्भ्यां शूद्रोऽजायत' इति पुरुषसूक्तम् 2. कुलानुवृ- त्तिकालेऽपि । 6 . ८ Dighazed by Google ·
पृष्ठम्:भारतानुवर्णनम्.djvu/७२
दिखावट