पृष्ठम्:भारतानुवर्णनम्.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ सिंहलद्वीपः– 'सिंहलद्वीपः' कुमार्याः पूर्वतः समुद्रमध्ये वर्तते । अयं 'लङ्काडीप' इत्यपि कथ्यते । अत्र रोहणाद्रिस्तिष्ठति, यं रत्नोत्पत्तिस्थानम् आहुः । श्रीरामेण कृतेति प्रतीता सेतुंरेखा भारतलङ्कयोर्मध्ये दृश्यते । अस्त्यत्र 'निकुम्भिला' नाम प्रदेशः, यत्र लक्ष्मणो रावाणं जिगाय | तत्समीपवर्तिनः पुरस्य 'कुलम्ब्' इति संज्ञा निकुम्भिलाशब्दस्य विकारः सम्भाव्यते ॥ देशान्तराणि --इत्थं प्रधानभूता देशाः प्रा- येण निर्दिष्टाः । ये देशा जम्बूद्वीपे भारताद् बहिरव- तिष्ठन्ते, तेष्वपि कांश्चित प्राचीनैरार्यैः सम्यग् विदि- तान् जानीमः । ते च दक्षिणाहि 'यंवडीप:': पश्चिमतो '; 'वैनायवः ' ' काम्बोजा: ' ' पौरसीकाश्च': पश्चिमोत्त-

1. Ceylon. 2. Adam's Peak. 3. Adam's Bridge. 4. Negambo. Son of Ravana. 6. Colombo. 7. Corrupt form. 8 जम्बूद्वीप = Asia. 9. Fur to the south. 10. Java 11. Arabig 12. Afghanistan. 13. Persia. Digitized by Google -