पृष्ठम्:भारतानुवर्णनम्.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ शान्तिम् अभिनयन्तो वा भगवल्लीलापराणि गीता- नि गायन्तो भैक्षं चरन्ति । केचिद् देवकैङ्कर्यायानाथजनपोषणाय च या- च्ञया धनम् उत्थापयन्तो जीवन्ति । केचित् तीर्थाटनपराः सन्तः पाथेयं याच्या लभन्ते । केचित् पितृश्राद्धम् उपनयनं विवाहं वा हे - तुम् उदीरयन्तः किमपि याचन्ते ॥ दानम्. याच्यमानो जनो वहुधनो वा भवतु; स्वल्प- धनो वा । स प्रायेण याचकाय तद्द्वतान् गुणदोषान् अनतिविचार्य यत्किञ्चिद् वितरति । अयम् अन्त- तोऽन्नं तण्डुलमुष्टिं वा क्षुधिताय न खलु न प्रयच्छ- ति । इदं ह्यनादिकालसिद्धं पुण्यं व्रतम् आर्याणाम्, यद् ‘देहि' इति वदन् जनः स्वल्पेनापि वा दानेन सम्भाव्यते; न तु नास्तिवाचा परिभूयते by Google Digitized by