पृष्ठम्:भारतानुवर्णनम्.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३७ न्ते । अपि च पिशाचगृहेषु चण्डालैरुपास्यमानेषु मांसं मद्यं च निवेद्यते ॥ उत्सवाः. असति विभवे वर्षस्य द्विः सकृद्वा दारुमये वाहने समारोपितेन देवेन ग्रामः प्रदक्षिणीक्रियते । सति तु विभवे देवालयेषु पक्षोत्सवो मासो- त्सव ऋतूत्सवोऽयनोत्सत्रो वर्षोत्सवश्चानुष्ठीयन्ते । उ- त्सत्रेषु देवस्य सेवायै परस्सहस्रा जनास्तत इतः स- म्मिलन्ति । तेषु दशदिवसनिर्वर्सो यात्रोत्सवो मुख्यो ग- ण्यते । तस्मिन्नुत्सवे दीक्षानियमैरुपेतो देवलक आ गमोक्तेन विधिना ध्वजस्तम्भे ध्वजपटम् आरोपयति प्रथमदिवसे; दशमदिवसे तु तम् अवरोपयति । प्रा. तर्नक्तं च भिन्नभिन्नेषु वाहनेषु नगरम् अभितो देव- स्य यात्रा भवति । तत्र दशमदिवसे या देवयात्रा, सा जनैर्विशेषेणाभिनन्द्यते, यस्मात् तदा देवो रथा- 1. Procession. १८ Digitized by Google