पृष्ठम्:भारतानुवर्णनम्.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ सूक्ष्मसूक्ष्माणां चित्तवृत्तीनां तज्जन्यानां चाकारेङ्गिता- नां वर्णनेऽस्य महाकवेः सामर्थ्यम् असाधारणं पश्यामः । अस्याभिजनो विदर्भेषु पद्मावती नाम नग- रम् । एष हर्षवर्धनवंश्यस्य यशोवर्मणः, कश्मीरपते. र्यशोवर्मजेतुर्ललितादित्यस्य च सभायाम् आसीत् ॥ हर्षवर्धनः-- शीलादित्यापरनामा हर्षवर्धन- स्त्रीणि दृश्यकाव्यानि रचयामास । यथा – 'प्रियदर्शि- का' 'रत्नावली' 'नागानन्दम्' इति । तत्र इयोः शू- ङ्गारो रसः, नागानन्दे दयावीरः । तेषु नागानन्दं गुण- तो विशिष्यते । इदं नाटकत्रयं श्रीहर्षदेवत्य नाम्ना धावककविर्भट्टबाणो वा चकारेति प्रथास्ति || -- शूद्रकः -- शूद्रककवेः कृति 'र्मृच्छकटिकं' नाम प्रकरणम् । इदं षट्त्रिंशाद् वर्षशतकाद् उत्तर- स्मिन् काले प्रणीतम् इति पण्डिता ऊहन्ते । इदं काव्यालङ्कारसूत्रकृता वामनेन स्मर्यते । वामनश्च च- त्वारिंशे कलिवर्षशतके स्थितः सम्भाव्यते ॥ 1. उक्तस्य शतकस्योत्तरार्धे स्थितेन ध्वन्यालोककृतानन्दवर्धनेने चामनपक्षोपक्षेपादियं सम्भावना | Digitized by Google