पृष्ठम्:भारतानुवर्णनम्.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११७ अभिज्ञानशाकुन्तलम्' इति च त्रीणि शृङ्गारप्रधा- नानि दृश्यकाव्यानि । निरूपिताः काव्यगुणास्तेषु समग्रा उपलभ्य- न्ते । तेष्वपि गुणानां परिपोषे विमृश्यमाने शाकुन्त लरघुवंशयोरुत्कर्षे पश्यामः । अनयोः पदान्यर्थाच यावद्विमर्श हृदयम् उल्लासयन्ति । किं बहुना । शतं वारान शाकुन्तलं परिशीलितवतोऽपि जनस्य भूय- स्तत्र परिशीलनाभिलाषो वर्धत एव केवलम् । एभिः काव्यैः कालिदासः प्रतिष्ठापितः सा- म्राज्यपीठे कविराज्यस्य ॥ भवभूतिः -- 'मालतीमाधवं' 'महावीरच रितम्' 'उत्तररामचरितम्' इति त्रीणि रूपकाणि भवभूतिना विरचितानि । तेषु प्रथमं प्रकरणम्, अ- न्ये तु नाटके । एषु प्रथमे शृङ्गारो रसः, द्वितीये वीरः, तृतीये करुणो धर्मवीरो वा । उत्तररामचरित - स्य गुणसम्पदि पर्यालोच्यमानायां भवभूतिः कालि- दासाद् अनन्तरं कवीनाम् अग्रे गणनाम् अर्हति । Digitized by Google