पृष्ठम्:भारतानुवर्णनम्.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०७ र्यसंस्तवाद् वृद्धिं प्राप्तम् । एषां यवनादिभिवैदेशिकैः सह वाणिज्यव्यवहारोऽपि पुरा स्थितः ॥ ॥ बल्लाला:. राजपुत्रवंशया बल्लाला नामैकचत्वारिंशे वर्ष- शतके कर्णाटदेशं चालूक्यराज्यस्य कञ्चिद् अंशं च वशे चक्रुः । आ च महम्मदीयानाम् आक्रमणात् ४४१२ तमवर्षे जातात ते प्राबल्यम् अवहन् । काकतीयाः काकतिवंश्या राजानो द्वाचत्वारिंशे वर्षशत- के प्रभुत्वम् अन्धेषु प्रतिपेदिरे । तेषु महाबलः प्रता- परुद्रः ४२६४ तमे वर्षे प्रसिद्ध आसीत् । अनेन 'वि- द्यानाथो' नाम पण्डितः सदसि लालितो बभूव । विद्यानाथेन हि प्रतापरुद्रयशोभूषणं नाम काव्यलक्ष- णग्रन्थः प्रणीतः प्रथते । 1. द्वादशोत्तरचतुश्शताधिकचतुस्सहस्रतमवर्षे. 2. चतुष्षष्ट्यधि- कद्विशतोत्तरचतुस्सहस्रतमे । Digitized by Google