पृष्ठम्:भारतानुवर्णनम्.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ गते राजपुत्रवंश्या चालूक्या नाम दक्षिणखण्डस्य प तयोऽभवन् । तेषाम् अधिकारविषयो नर्मदाकृष्णयो- र्नयोर्मध्यदेशः । सप्तत्रिंशाद् वर्षशतकात् प्रभृति स सशतीं वर्षाणां राज्यं चालूक्येषु प्रतिष्ठां लेभे । तेषां राजधानी पूर्वतो राजमहेन्द्री पश्चिमतः कल्याणपुरं च । महाराष्ट्रनाथ: पौलकेशी नाम महाबलो रा- जा हर्षवर्धनस्याप्यजय्योऽभवत् । एष चोलदेशस्य जेता बुद्धमतस्य ध्वंसयिता चासीत् ॥ द्रामिलाः. कृष्णाया दक्षिणः कुमारीपर्यन्तो भूखण्डो द्रा- मिलेष्वधीन आसीत् । तस्मिन्नन्तर्गतेषु चोलेषु पा- ण्ड्येषु चेरेषु केरलेषु च पृथक् पृथग् राजानः पुरा राज्यम् अकारयन् | तेषु पाण्ड्यराजा मुख्या गण्य- न्ते । एते किल कदाचिद् द्रमिलविषयस्य निखिल- स्य नायका बभूवुः | द्रमिलजनानां तत्त्वदर्शनकालिकाद् आर्यसं- स्तवात् प्रागपि वैदग्ध्यं किमपि स्थितम् । तद् आ Digitized by Google