पृष्ठम्:भारतानुवर्णनम्.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति


 अत्र वर्णितानां प्राचीनजनपदादीनां स्थानविज्ञानाय प्राचीनभारतलेख्यमप्यत्रायोजयम्‌ ।

 यौरोपविद्वदुपदर्शितया दिशा यौरोपच्छात्रान्‌ प्रति विरचितोऽप्ययं ग्रन्थो, विशिष्य त्वस्य प्रथम-द्वितीयभागौ भूप्रकरण-पुरावृत्तप्रकरणाख्यौ स्वदेशजिज्ञामूनां भारतच्छात्राणामपि न खलु नोपकाराय सम्पद्येरन्‌ ।

 अस्य ग्रन्थस्येतिकतेन्यतोपदेशेन मुद्रणपत्रसंशोधनेन च मह्यं महान्तमुपकारमाहितवति तत्रभवति लेविमहाशये भृशं कृतज्ञोऽस्मि ॥

अनन्तशयनम्‌.
त. गणपतिशास्त्री
 
मिथुनं १०७९.