पृष्ठम्:भारतानुवर्णनम्.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निवेदना

 मत्पाठावलीः प्रकशितचरीः प्रचारकामनया प्रेषिताः प्रान्सदेशीयो विद्वन्महाशयः सिल्वैन्‌ लेविः जर्मनिदेशीयो विद्वन्महाश यो जाकोबिश्चाभिनन्द्य तासु प्रतिपाद्यमानानां विषयाणां यौरोपच्छात्रान्‌ प्रत्यपूर्वत्वाभावादननुगुणत्वमवोचताम्‌ । ’यौरोपच्छात्रानुगुणा चेत्‌ पाठावलिश्चिकीर्ष्यते, तर्हि तस्या विधां बोधयामि’ इति च विशिष्य लेविमहाशय उक्तवान्‌ । अथ बोधनमर्थितोऽप्तावविस्तृतिपरां कामपि विधामित्थमदर्शयत्‌-- ’ग्रन्थे तावत्‌ प्राचीनभारतखण्डे प्रधानानि पर्वतनदीदेशनगराण्याधुनिकनामसंवादेन निर्दष्टव्यानि । ततो भारतस्य पुरावृत्तं महम्मदीयकालावधिकं--तत्र बुद्धश्चन्द्रगुप्तो यवना अशोकः शकहिन्दवो यवनहिन्दवो गुप्ता विक्रमादित्यः शालिवाहनो हर्षो भोजो रामचरितं पाण्डवचरितं साहित्यम्‌ इत्येतत्‌ प्रतिपाद्यम्‌ । अथाधुनिकहिन्दुस्थितिः-- तत्र बालाः पण्डिता दैवकैङकर्यं ग्रामो गृहं शिल्पं जीविका आपणः पण्यम्‌ इत्यादिर्विषयः । ग्रन्थेऽस्मन्नर्थप्रतिपत्तिकष्टापेता दुष्प्रौढिवर्जिता सुकृमारवाक्प्रवाहा च शय्या भवितुमर्हति’ इति । तदनुरोधेन ग्रन्थमिमं भारतानुवर्णनं नाम प्रणीय पूर्वतरवर्षशेषे लेविमहाशयाय प्राहिणवम्‌ । तस्य तमभिनन्द्य प्रतिप्रेषितवत इच्छानुसारात्‌ तन्मुद्रणपत्राणि सर्वाणि तस्मै संशोधनार्थं प्रैषयम्‌ । तानि स सूक्ष्मेक्षिकया सदयं समशोधयत्‌ ।