पृष्ठम्:भामिनीविलासः.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१
शृङ्गारोल्लासः

उपनिषदः परिपीता गीतापि च हन्त मतिपथं नीता ।
तदपि न हा विधुवदना मानससदनाद्बहिर्याति ॥ ३८ ॥

 उपनिषद् इति। हेति शोकारावसूचकम् । मयेति कत्रध्याहारो वक्तुर्विरहपार- वश्यावद्योती । उपेति । परिपीतेति प्रमादो व्यज्यते। पेयवद्धृदये निहितेति यावत्। हन्तेति खेदे । गीतापि । सुतसंहितोक्तव्रह्मगीतापीत्यर्थः । शिवादिगीतयोरुक्तकथो- तरकालिकत्वात् । एवं च श्रुतिस्मृत्युभयवैफल्यमेव जातमिति द्योतितम् । तदपी. त्यादि सरलमेव । न यातीति संबन्धः । मनः सदा चन्द्राननामेव चिन्तयतीति तात्पर्यम्। तरुणीनां हि मन्दिराद्वहिर्याने सखीसुमङ्गलीसलिलसुमनःशशाङ्काद्यपेक्षैव निमित्तं प्रायः । तत्तूपनिषद्गीतामानसविधुपदैरेव श्लेषादिना सिद्धमेवेति युक्त एवो- कतदभाव इति । अत्र वकीया परकीया वा मध्या क्रुद्धा नायिका। विरहविकलो नायकः । विप्रलम्भः शृङ्गारः । विशेषोक्तिरलंकारः । तदुक्तम्-‘कार्याजनिर्विशे. षोक्तिः सति पुष्कलकारणे । हृदि स्नेहक्षयो नाभूत्स्मरदीप ज्वलत्यपि ॥” इति ॥

 इत्थं श्रीरामस्य श्रीकृष्णस्य वा मारशरप्रहारपारवश्यजन्यशोकमाकलव्य सीतां राधां वा तत्सखी बलात्स्वकरे गृहीत्वा तत्सविधं निन्ये । ततोऽपि सातिमानव- शान्नैव प्रससादेति कविर्वर्णयति--

अकरुणहृदय प्रियतम मुञ्चामि त्वामितः परं नाहम् ।
इत्यालपति कराम्बुजमादायालीजनस्य विकला सा ॥ ३९ ॥

 अकरुणेति । सा विकला। अत एवालीजनस्य कराम्बुजमादाय । खकरेणाव- लम्ब्येत्यर्थः । अकरुणेति । एतावत्कालमुपेक्षकत्वात्। एतेन सख्यादिद्वारा प्रार्थने कारितेऽपि त्वया साक्षात्प्रणत्यादिना तन्नैव कृतमिति द्योतितम् । तर्हि त्वयाप्युपे- क्ष्यतां तत्रा–प्रियतमेति । तह्यलिङ्गय । नेत्याह-मुञ्चामीति । अहमितः परं त्वां मुञ्चामि तथाहमपि नैवास्मीति संबन्धः । त्वद्वियोगान्नैव जीवामीति रहस्यम् । एवं चैतावत्कालं मया प्रतीक्षितम् । इतःपरे तु मदभिलषितसत्काराभावादहं पञ्च प्राणानेव पञ्चबाणसात्करोमीति व्यज्यते । हे प्रियतम, इतःपरमहं त्वां मुञ्चामीति योजनं त्वकरुणहृदयेति संबोधनरहस्यानवधान निबन्धनमेव । इति निरुक्तप्रका- रेण । आलपति भाषत इत्यन्वयः । बुद्धिस्थत्वाल्लट् । इह रूपकादिरलंकारः । शेषं तु प्रागैवदेव ॥ अथैवं श्रीकृष्णे राधिकाप्रसादे नैराश्यमापन्ने ततोऽन्यत्र गते च सति तत्सखी