अधिरोप्येति । हे सखि । हन्तेति खेदे। तु पुनः । एतेनेयं सीता तावत्पूर्व श्रीरामेणोकरीत्या परिणीतैवैका जनककन्यकेति ध्वनितम् । इदानीं वर्तमानकाले, न तु कल्पान्तरे। तेनोक्तावतारस्य पुनः संभवेऽपि न क्षतिः । युवा यः कश्चिद्रामा- तिरिक्तो राजकुमारः। हरस्य शिवस्य चापं कार्मुकमधिरोप्य सज्जीकृय। तथा बान्ध- वानां वसंवन्धिन परितापम् । कथमेवं दुर्घटो विदेहपणः कुमारेण पूरणीय इति संतापमित्यर्थः । प्रशमय्य क्षणमात्रेण दूरीकृत्य । तत्रापि निरपायं निर्बाधं यथा स्यात्तथा । एतेन युद्धादिव्युदासो ध्वन्यते । मिथिलेति । अन्य कांचिज्जनकक- न्यकामिति यावत् । न तु पार्थिवीम् । एतस्यास्तु प्रागेव भगवता श्रीरामेण तथो- द्वहनात् । परिणेष्यति वोद्वहिष्यति किम् । अपि तु नैवोद्वहिष्यतीत्यन्वयः । तस्मात्तादृग्गुणमणिगणमहार्णवः श्रीमत्किरणमालिकुलतिलकः श्रीरामचन्द्र एवेति तत्रापीयमेवमुदासीनेति पृथ्वीजन्यत्वेनौचित्येऽपि विदेहनन्दिनीत्वेनानुचितमे- वेपि तत्त्वम् । ‘युवा न वायम्' इति पाठे त्वयं प्रत्यक्षः श्रीरामो नैव परिणेष्यति तथाप्यन्यः कश्चिद्युवा परिणेष्यति वेति काक्वा व्याख्येयम् । शेषं तु प्राग्वदेव । इह परिकराङ्कुर एवालंकारः । शेषं प्राग्वदेव ॥
अथोक्तसखीवाक्यमाकर्त्य पतिव्रतासीमन्तभूषणीभूतया सीतया निरुकपरिहा- सासहिष्णुत्वेन रोषोत्कर्षतः कम्प एव संपादिते सति पुनरपि सैव सखी प्राग्व- देव तत्सख्यन्तरं प्रति तद्विनोदमेव कुर्वन्ती सती तन्मौग्ध्यं ध्वनयति-
भुजपञ्जरे गृहीता नवपरिणीता वरेण रहसि वधूः ॥ |
भुजेति । हे सखि, इयं जानकी वरेण श्रीरामेण । नवेति । नूतनोद्वाहिता । वधूर्जाया । अत एव । रहसि । भुजेति । बाहुद्वन्द्वरूपसारिकादिपक्षिरोधककाष्ठगृह इत्यर्थः । गृहीतालिक्विता । तत्कालेति । अकस्माद्वागुरागतेत्यर्थः । तत्रापि बालेति । नूतनहरिणीव नितरां वेपते कम्पत इत्यन्वयः । तस्मान्मध्याया एतस्याः परम- सुखनिधाने भगवति विलासप्रधाने श्रीरामे रतिं प्रार्थयति सति नववधुरिव निरुक्त- दृष्टान्तेन मृत्युपाशग्रस्तत्वारोपमिव मत्वा कम्पाद्याविष्करणमयुक्तमेवेत्याकूतम् । इहोपमालंकारः । अपरं तु सर्व पूर्ववदेव ॥ |
एवं शिथिलप्रयत्नाः सीताया राधाया वा सखीरालक्ष्य श्रीरामः श्रीकृष्णो वा स्मरज्वरातुरो नायिकातत्सखीसमक्षमेव मुक्तकण्ठं संजातसकलविवेककुण्ठं च शोचवि---