पृष्ठम्:भामिनीविलासः.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
भामिनीविलासे

रोऽपि' इति पाठे तु मुदिरपदवाच्यमेघेन गर्जनतस्तन्निद्राभङ्गः संपादित इति नकाप्यनुपपत्तिः । तस्माद्यः पूर्वं व्यावहारिको यश्चायं प्रतिभासिकश्च मद्विघातः संपन्नस्तं त्वमेव पारमार्थिकं तत्प्रसादनं संपाद्य शामयेत्याशयः । इह विषादनम- लंकारः। तदुक्तम्-‘इष्यमाणविरुद्धार्थसंप्राप्तिस्तु विषादनम् । दीपमुद्योजयेद्याव- निर्वाणिस्तावदेव सः ॥” इति । शेषं तु पूर्ववदेव ॥

 ननु किमेवं भवादृशां प्रौढानामपि कान्तैकरत्या दुःखित्वौचित्यम् । उक्तं हि कविसमयेऽपि-‘विपुलपुलिनाः कल्लोलिन्यो नितान्तपतज्झरीमसृणितशिलाः शैलाः सान्द्रद्रुमा वनभूमयः । यदि परिचयो वैयासिक्यां बुधैश्च समागमः क्व पिशितवसामय्यो नार्यस्तदा के च मन्मथः ॥ इति । तस्माद्विचार एव कार्य इति वदन्त सखीं प्रति श्रीरामः श्रीकृष्णो वा समहाभारतवेदपञ्चकोपलक्षितयावच्छ- ब्दब्रह्मपरिशीलनेऽपि तत्रत्यमेकमद्वितीयव्रह्मलक्षणमर्थजातमपि तथा संतापशान्ति नैव विरचयति यथायं रतान्तश्रान्तायाः प्रकृतकान्तायाः पुनः सुरतार्थ प्रार्थने मया क्रियमाणे सति मुखमयूखसखो नकारोऽपीति प्रतिवदति-

श्रुतिशतमपि भूयः शीलितं भारतं वा
विरचयति तथा नो हन्त संतापशान्तिम् ।
अयि सपदि यथायं केलिविश्रान्तकान्ता-
वदनकमलवल्गत्कान्तिसान्द्रो नकारः ॥ ३३ ॥

 श्रुतीति। अत्र संतापशान्ति विरचयतीत्युत्तरार्धेऽप्यनुकर्षणीयम् । वदनेति । वल्गन्त्यान्दोलनेन चलन्ती या कान्तिः प्रभा तया सान्द्रः । निबिड इत्यर्थः । एता- दृशो नकारोऽपीति योज्यम् । कान्तिवशीकृते चक्षुषि नकारग्रहणे श्रोत्रस्य प्रवृत्त्य- वसरशून्यतैव संपद्यत इति सान्द्रपदेन द्योत्यते । एवं तथापदेन सपदिपदेन च मय्यप्युक्तरीत्या श्रुत्यादिकं निर्विषयानन्दप्रदत्वेन संतापशान्ति त्यागयोगादिसा- धनपरिपाकतस्तनोयेव तथा सद्यस्तारक्साधनमन्तरेव विषयानन्दप्रदानेन नैव संतापशान्ति तनोतीति योयते । अत्र पूर्ववदेवेतरद्विना रतश्रान्तनायिकाप्रती- पविशेषालंकारौ ॥ अथैवं सूचनतः सत्वरा सखी सामान्यतः कारणानभिज्ञेव सीताया राधाया वा निरुकरोषवैवश्यजातविरहकृतपाण्डिमानं तां प्रत्येव वर्णयन्ती तत्प्रत्युत्तराकाङ्क्षां व्यनक्ति-