पृष्ठम्:भामिनीविलासः.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८५
शृङ्गारोल्लासः

 निरुध्येति । हे सखि, कदाचिद्यान्तीं पलायमानां कपोतीं “पारावतः कलरवः कपोतःइत्यमरात्कलरवाख्यां पक्षिणीं निरुध्य कराभ्यां धृत्वा । कूजत्कपोतस्य । सुरतार्थ रुतविशेषं कुर्वतस्तद्भर्तुरित्यर्थः । पुरोऽग्रभगे दधाने स्थापयति । एता दृशे मयि सतीति यावत् । सा पूर्वप्रकृता राधिका । स्मितेति । स्मेरसुधयाति स्निग्धीकृतमित्यर्थः । एतादृशम् । वदनेति । मुखकमलम् । मन्दमन्दं शनैःशनै- र्यथा स्यात्तथा। नमयांबभूव नीचकारेति संबन्धः । एतेन तस्या अपि तास्काालि- कसुरतौत्कण्ठ्यं संपन्नमिति व्यज्यते । तस्माद्यथाधुनाप्येवं स्यात्तथा भवत्या अवश्यं भावनीयमिति भावः । इह लीलाशालिनावेव स्मर्यमाणनायिकानायकौ । प्रकृतौ तु तौ कुपितावियुक्तायुक्तावेव । विप्रलम्भ एव शृङ्गारः । यद्यपि स्मर्यमाणस्य तस्य संभोगारम्भरूपस्य संभवेऽपि वर्तमानत्वाभावात् लुप्तोपमादिरलंकारः ।

 अथैकविंशतिलोकवर्णितवदनां सीतां प्रति श्रीरामः पूर्वलोकषीत्या संप्रे षितसखीप्रार्थनशतैरभिसृतां राधिकां प्रति श्रीकृष्णो वा सायं तद्वदनस्य राका निशाकरत्वध्वननेन परितोपयति-

तिमिरं हरन्ति हरितां पुरःस्थितं
तिरयन्ति तापमथ तापशालिनाम् ।
वदनत्विषस्तव चकोरलोचने
परिमुद्रयन्ति सरसीरुहश्रियम् ॥ २९ ॥

 तिमिरमिति । अयि चकोरलोचने । एतेन त्वन्मुखस्य निष्कलङ्कत्वापरिक्षण- त्वादिना चकोरमिथुनमेव नयनच्छझनानैवागत्य विहरतीति द्योतितम् । तव वदनत्विषो मुखकान्तयः । हरितां दिशां पुरःस्थितमग्रभागवर्ति तिमिरं हरन्ती त्यन्वयः । एवं तर्हि किं मन्मुखस्य सूर्यत्वमुत्प्रेक्ष्यते । तत्त्वनुचितं तस्य ताप कत्वादस्य तु तच्छामकत्वादित्यत आह—तिरयन्तीति । अथ प्रथमप्रसारतस्ति मिरहरणानन्तरमित्यर्थः। तापशालिनां त्रिविधतापवतां न तु कामज्वरातुराणाम्। तथात्वे बहुवचनात्सामान्यवनितात्वापत्तिः । तापं तिरयन्त्यपसारयन्तीति योज ना। अथापि जीवन्मुक्तमुखमयूखेष्वतिव्याप्तिरत आह--परीति चरमचरणेन । सरसीति । कमलशोभामित्यर्थः । परिमुह्यन्ति मुकुलीकुर्वन्तीति संबन्धः । तस्मांद्धन्योऽहमद्य वदाननदर्शनेनैवेत्याशयः । अत्र मध्या स्वकीया परकीया वाभिसारिका नायिका। मुदितो नायकः । संभोगारम्भ एव शृङ्गारः। व्यङ्गय