पृष्ठम्:भामिनीविलासः.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥

पण्डितराजश्रीजगन्नाथविरचितः

भामिनीविलासः ।


अच्युतरायकृतया प्रणयप्रकाशाख्यया व्याख्यया समेतः ।


अन्योक्युल्लासः ।

प्रथमः प्रमोदः ।

प्रेम्णा प्रेड्य प्राञ्चोः प्रपदानि प्रेयसीप्रिययोः ।
प्रचुरं प्रपञ्चयामि प्रौढ्यै प्रणयप्रकाशमहम् ॥
नहि भामिनी विलासः सुखसाध्यो भवति रसविलोलधियाम् ।
प्रणयप्रकाशविरहे तस्मात्तेनैव तैः स संपाद्यः ॥

 इह श्रीमत्परमेश्वरशिरःकिरीटहीरकहारीभूतसमुल्लसत्तरङ्गां सकलोपनिषदन्तरङ्गां भगवतीं गङ्गामाराध्य तत्प्रसादसमासादितसकलविद्याकमलिनीविद्योतनत्वमहिम्ना श्रीमज्जगन्नाथनाम्ना पण्डितराजेन ‘काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे॥' इति भरतसूत्रात्, ‘सुन्दरी खेशहृदयं वशीकृत्य खसद्गुणैः । लौकिकं वैदिकं चापि कुजतीष्टं ससाधनम् ॥ तद्वत्काव्याद्यपि श्रीमन्महारामायणादिकम् । श्रोतुर्मनो वशीकृत्य हितं वक्ति सहेतुकम् ॥' इत्यादिमदुक्तसाहित्यसारप्रपञ्चितपद्धत्या धर्मादिचतुर्विधससाधनपुरुषार्थानां भामिनीविलासाख्ययथार्थलघुकाव्यप्रणयनेनोपदिदिक्षया तन्निष्प्रत्यूहतादिप्रयोजनं शिष्टाचाराद्यनुमितश्रुतितः प्राप्तविधानं वस्तुनिर्देशलक्षणं मङ्गलं तावदन्योक्त्युल्लासेऽत्र तयैवाप्रस्तुतप्रशंसारूपया शिष्यानुशासनार्थं ग्रन्थारम्भेऽपि द्योत्यते--

दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः ।
करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः ।
इदानीं लोकेऽस्मिन्ननुपमशिखानां पुनरयं
नखानां पाण्डित्यं प्रकटयतु कस्मिन्मृगपतिः ॥ १ ॥