दिगन्त इति । अयं बुद्धिस्थत्वेनापरोक्षो मृगपतिः, 'सिंहो मृगेन्द्रः' इत्यमरात्सिंहः, इदानीं वर्तमानकाले, न तु भविष्यत्कालेऽपि, अस्मिन्प्रपक्षे लोके भूर्लोके पुनरप्रथमे । एतेन पूर्वं शतशः करिवरा विदारिता एवेति ध्वनितम् । अनुपमशिखानामतितीक्ष्णाग्राणां नखानां पाण्डित्यं नैपुण्यं कस्मिन्प्रकटयतु । न क्वापि प्रकटयत्वित्यन्वयः । तत्र हेतुं पूर्वार्धेनाह--यतः, मदमलिनगण्डा दानदिग्धकपोलाः करटिनः । ‘करटो गजगण्डे स्यात्कुसुम्भे निन्द्यजीविनि । एका दशाहश्राद्धेऽपि दुर्द्धरूढेऽपि वायसे ॥' इति विश्वः । विशालगण्डस्थलमण्डिता गजा इत्यर्थः । दिगन्ते प्राच्यादिदिक्प्रान्ते श्रूयन्ते । ‘ऐरावतः पुण्डरीको वामनः कुमुदोऽजनः। पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥' इत्यमरात्केवलं परोक्षमेव श्रवणद्वारावगम्यन्ते, न त्वपरोक्षीक्रियन्त इत्यर्थः । तथा करिण्यो गजिन्यः कारुण्यास्पदं खलु तद्यूथनाथानां प्रागेवानेन विदारितत्वात्तासां स्त्रीत्वेन वधानर्हत्वाच्च तास्तावदनुकम्पापात्रमेवेति भावः । किंच मृगा हरिणा असमशीला अतुल्यबलाः खलु । तस्माद्युक्तमेवोक्तमृगपतेः शौर्यप्रकटनस्थानाभाववर्णनमित्याशयः । इयं हि मुख्योक्त्या व्याख्या । अन्योक्तिस्तु-- स्वस्य कस्यचिदन्यस्य वा पण्डितमाण्डलिकचक्रवर्तिन; स्तुतिरियमिति पाण्डित्यपदान्यथापत्त्योह्यते । वस्तुतस्तु तस्याः सर्वतोमुखत्वेन यथाप्रसङ्गं यथायोगं प्रकल्पनेऽपि न क्षतिः। इयमेव व्यवस्था यावदभिमन्योक्तिष्वपीति दिक् ॥ मङ्गलपक्षे तु वस्तुनिर्देशलक्षणमङ्गलपरतया श्लेषेणार्थत्रयं ज्ञेयम् । तद्यथा— मृगपतिः । अत्र अजहत्स्वार्थलक्षणया नृमृगपतिर्नरसिंहो ग्राह्यः । तथा चेदं प्रह्लादस्य हिरण्यकशिपुवधोत्तरं ब्रह्मादीन्प्रति भगवत्प्रभाववर्णनवचनम् । हे ब्रह्मादयः, अयमपरोक्षो मृगपतिरुक्तवृत्त्या नृहरिः । इदानीमित्याद्युत्तरार्धशेषं प्राग्वदेव । एवं करटिशब्देनाप्येतद्वध्यत्वेनासुरा एव ज्ञेयाः। ते तु दिगन्ते श्रूयन्ते । समुद्रपातालादिनिविष्टत्वाद्दूरवर्तमानत्वेन केवलमाकर्ण्यन्त एवेत्यर्थः । तद्वत्करिणीपदेनापि कयाधूप्रभृतयोऽसुरस्त्रियो बोध्याः । तथा मृगयन्त्यन्वेषयन्तीति व्युत्पत्त्या शुक्रपुत्रादयस्तन्मन्त्रिण एव मृगशब्दिताः । तस्माद्भगवतो नारसिंहस्य पुनः शौर्यप्रकाशने न किमपि प्रकृते पात्रमिति हिरण्यकशिपुवधादितच्चरितात्मकवस्तुव्यञ्जनेन विचित्रं तच्छौर्यैश्वर्यमिति द्योतितम् । तेन तस्य कविकर्तृकनमस्क्रियात्मकमपि मङ्गलं ध्वन्यते । तस्यास्त्वत्तोऽहं निकृष्टो मत्तस्त्वमुत्कृष्ट इति भावनपूर्वककायिकादित्रिविधप्रह्वीभावैकरूपत्वात् । पक्षे ‘शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म खभाव
पृष्ठम्:भामिनीविलासः.djvu/१०
दिखावट