पृष्ठम्:भामिनीविलासः.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
अन्योक्त्युल्लासः ।

शान्तिरेव शैत्यं तस्य हुताशन इवानुत्पत्तिस्थानत्वाद्भुताशनोऽग्निरित्यर्थः। अथापि दया चेदुभयमप्येतद्भविष्यति। अत एवोक्तम्—‘वदनं प्रसादसदनं सदयं हृदयं सुधामुचो वाचः। करणं परोपकरणं येषां केषां न ते वन्द्यः ॥’ इति । तत्राह कारुण्येति । कारुण्यमेव कुसुमं तस्याकाश इवानुत्पत्तिहेतुत्वादाकाश इत्यर्थः । एतादृशः खलः । अत एव-सज्जनेति । सज्जनानां यदुःखं तळाल्यादत्ते संपादय तीति तथा । साधुदुःखजनक इत्यर्थः। ‘दुःखदःइति पाठस्तु सरल एव । त्वं तु सज्जनसुखद एवेति भावः । अत्र रूपकलुप्तोपमाविशेषावलंकारौ । शेषं तौ प्राग्वदेव ॥

 एवं स राजकुमारः खलनिन्दामाकण्यं ततः परमक्षुब्धं श्रीगुरुमालक्ष्य ‘गुर् प्रणतिभिः’ इति न्यायादुक्तनिन्दाप्रधानपद्यत्रयद्योतितस्खस्तुतितः प्रचुरप्रमुदितः संस्तं वृक्षान्योक्त्या प्रणमति

धत्ते भरं कुसुमपत्रफलावलीनां
घर्मव्यथां वहति शीतभवां रुजं च ।
यो देहमर्पयति चान्यसुखस्य हेतो
स्तस्मै वदान्यगुरवे तरवे नमोऽस्तु ॥ ८९ ॥

 धत्ते भरमिति । यो वक्ष्यमाणगुणगणस्तरुवरः। कुसुमेति । भरं भारम् । अन्यसुखस्य हेतोरितरानन्दकरणार्थमित्यर्थः । न हि तेन तस्य किंचिद्धितम् । धत्ते धरति । तथा घर्मव्यथामातपपीडां शीतभवां हिमसंभवां रुजं पीडां च वहति । इदं वृध्यादेरप्युपलक्षणम्। किंबहुना, देहमप्यर्पयति । इन्धनाद्यर्थिभ्य इत्यर्थः । तस्मा- यित्यादि यथाश्रुतमेव योज्यम् । वदान्येति । अनेनैतादृशो दातृ शिरोमणिस्त्वमेव, अहं तु वदान्याभास एवेति भावः । अत्र चरणत्रयेण क्रमेण विद्यासंभारसंभरण श्रमशालित्वं खलपीडासहिष्णुत्वं प्राणप्रायब्रह्मविद्याप्रदातृस्वं चेति वदान्यगुरुत्वे हेतवो द्योतिताः। नमनेन च तत एव सर्ववन्द्यत्वं व्यज्यते । इहोदात्तो नायकः। दानवीरो भक्तिश्च रसः । काव्यलिङ्गमलंकारः ॥

 अथायं निरुक्तापराधी तटस्थादिरपि मूढजन्ः श्रीमद्भिः करुणयानुग्राह्य एवेति श्रीगुरुं प्रार्थयन्राजकुमारस्तेन प्रबोध्यते—

हालाहलं खलु पिपासति कौतुकेन
कालमनलं परिचुचुम्बिषति प्रकामम् ।