आच्छादयन्नित्यर्थः । पक्षे संजातचक्राणि विदधन्सन् । द्राक् शीघ्र जयतीति योजना । तस्मात्त्वत्पाटवमेवेदं यदनेन दूषितमपि मां भूषयतीति भावः । अत्र ललितो नायकः। शिष्यरतिभावो रसः । उपमालंकारः ॥
ततः पुनरपि खलमेव निन्दन्ध्वनितस्तमेव नरपतिमुतं च गुरुः स्तौति-खल इत्यादि त्रिमिः ।
खलः सजनकापोसरक्षणेकहुताशनः । |
खल इति । सजना एव कार्षासाः शुद्धत्वमृदुत्वादिसाधम्र्यांतूलविशेषास्तेषां यद्रक्षणं विरोधिलक्षणया भक्षणं तत्रैकहुताशनः। मुख्योऽग्निरित्यर्थः । एतादृशः खाधुबाधकः खल एको निर्णीत इत्यर्थः। परेति । परेषां यानि दुःखानि तान्ये वाभिस्तं शमयति पूर्ववद्विरोधिलक्षणयैव दीपयति तथा एतादृशो मारुतो वायुः परदुःखसंवर्धकः पुरुषः केन वर्यताम् । न केनापीत्यर्थः । तस्य खलापेक्षयापि विचित्रदौथ्यादसाववाच्य एवेति भावः । अत्र दुःशठो नायकः। करुणो रसः । रूपकविशेषोऽलंकारः ।
परगुप्तिनिपुणं गुणमयमखिलैः समीरितं नितराम् । |
परगुहेति । खला दुष्टा आखव इव मूषिका इव। ललिताम्बरमिव रम्यवस नमिव । परेति परेषामन्येषां यद्धं गोप्यं धनादि, पक्षे मेढ़ादि, तस्य या गुप्ति गपनं तत्र निपुणम्। प्रवीणमित्यर्थः । कुत इत्यत्राह--गुणेति । शान्त्यादिगुणप्र चुरम् । पक्षे सूत्रविकारीभूतम् । अत एवाखिलैः सवैलकैर्नितरां समभिलषितमिति यावत् । एतादृशं सजनं दूषयन्त्यारोपितदोषयुक्तं कुर्वन्ति । पक्षे खण्डयन्तीत्य न्वयः। एते यद्यपि तथा वर्तन्ते तथापि त्वं तु नैवमसीत्याशयः । अत्र नायका दिकं कमेव । उपमालंकारः ।
यशःसौरभ्यलशुनः शान्तिशैल्यहुताशनः। |
यश इति । यश एव सौरभ्यं सौगन्ध्यं तस्य लशुन इव लशुनः । स यथा कालत्रयेऽपि सौरभ्यानुत्पत्तिस्थानमेव तद्वदयं खप्नेऽपि यशोनुत्पत्तिहेतुरेवेत्यर्थः। मास्तु यशः, शमश्चेदलम् । उक्तं हि वासिष्ठे—तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च । बलवत्सु गुणाढ्येषु शमवानेव राजते ॥' इति । तत्राह-शान्तीति ।