पृष्ठम्:भामिनीविलासः.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
अन्योक्त्युल्लासः ।

पौलोमीपतिकानने विलसतां गीर्वाणभूमीरुहां
येनाघ्रातसमुज्झितानि कुसुमान्याजह्रिरे निर्जरैः।
तस्मिन्नद्य मधुव्रते विधिवशान्माध्वीकमाकाङ्क्षति
त्वं चेदञ्चसि लोभमम्बुज तदा किं त्वां प्रति ब्रूमहे ॥ ४४॥

पौलोमीति। हे अम्बुज। एतेन विचारशरताराहित्यं द्योत्यते । येन । पौलोमीति । ‘पुलोमजा शची’ इत्यमरादिन्द्राणीरमणाराम इत्यर्थः । विलसतां भ्राजताम्। गीर्वाणेति । सुरतरूणाम् । आघ्रातेति । पूर्वमाम्रातान्यात्तगन्धानि पश्व-समुज्झितानीति तथा । आस्वाद्य त्यानीति यावत् । एतादृशानि कुसुमानि । निर्जरैर्देवैरप्याजभ्रिरे । आस्खादितानीत्यर्थः । अद्य विधिवशादैववशात्तस्मिन्मधुव्रतेभ्रमरे । अत्र व्रतपदमवश्यपरिपाल्यतां ध्वनयति । माध्वीकं मकरन्दम् । आकाक्षति अपेक्षमाणे सतीत्यर्थः । त्वं लोभमञ्चसि स्वीकुरुषे चेत्तदा त्वां प्रति किंनृमह इत्यन्वयः । तस्मादीदृक्पात्रे धनलोभो नैव कर्तव्यः । किंतु यथेच्छं समर्पणीयमेवेति भावः ।

 ननु भवत्वेवं पूज्यतमखमस्य, तथापि खपाण्डित्यप्रकटने को दोषः । प्रत्युतशिष्यस्य मम पुत्रतौल्यात् ‘सर्वत्र जयमन्विच्छेत्पुत्रादिच्छेत्पराजयम्’ इति न्यायात्संतोष एव स्यादित्याशङ्क्य कादचित्ककृतघ्नताभानापत्तेस्तदपि त्याज्यमेवेति स एव राजहंसान्योक्त्या व्यनकित--

भुक्ता मृणालपटली भवता निपीता
न्यम्बूनि यत्र नलिनानि निषेवितानि ।
रे राजहंस वद तस्य सरोवरस्य
कृत्येन केन भवितासि कृतोपकारः ॥ ४५ ॥

 भुक्तेति । रे इति नीचसंबोधनम् । निरुक्ताशङ्कशालित्वाद्युकमेव । न चविवेकाभावादेवेयमाशङ्का न तु प्रमादादिति वाच्यमित्याह -राजेति । एवं च राजहंसे यथा क्षीरनीरविवेककुशलत्वमेवमेव त्वय्यपि शास्त्राभ्यासेन सदस्रद्विचारः चतुरत्वं वर्तत एव, तथाप्युक्तपाण्डित्यप्रकटनेच्छा यदि तदा प्रमादिखमेवेति माणवकैरपि निर्णीयमिति द्योत्यते । भवता यत्र। मृणालेति । कमलतन्तुसंहतिरित्यर्थः। भुक्ता आखादिता। तथाम्बून्युदकानि निपीतानि । तथा नलिनानि पद्यानि निषेवितानि उपवेशनादिभिरुपभुक्तानीति यावत् । पक्षे मृणालवन्मृदुतराणि सुह्रुत्सँइत- भा वि ३