पृष्ठम्:भामिनीविलासः.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
अन्योक्त्युल्लासः ।

योग्यत्वमावेद्यते । ननु गङ्गादीनामपि किं जलं खयमेव जनवदनं प्रयातीत्यब्राह-तृषितानामिति । तस्मातृषितैर त्वज्जलं क्षारत्वात्पातुं नैव शक्यत इत्याशयः । पक्षे सदुपदेष्टरि कुपितत्वेन कृतप्तस्य तव जलमपि तृषितैरपि जनैरप्राश्यमेव क्क पुनरन्नमिति ध्वन्यते । अत्र शठो नायकः। छप्तोपमाप्यलंकारः ।करुण रसः ॥  तत्रापि संपदादिमदेनप्रणमन्तं तं प्रति तस्य कालप्रतत्वेन विनाशित्वं सूचयन्कासारान्योक्तया भियं ध्वनयति--

इयत्यां संपत्तावपि च सलिलानां त्वमधुना
न तृष्णामार्तानां हरसि यदि कासार सहसा ।
निदाघे चण्डांशौ किरति परितोऽङ्गारनिकरा-
न्कृशीभूतः केषामहह परिहर्तासि खलु ताम् ॥ ४१ ॥

 इयत्यमिति । पूर्वं क्षीरार्णवत्वेन संबोधनेऽपि कुपितत्वास्रार्णवत्वेननिन्दा । तत्रापि स्तब्धत्वादधुना पल्वलत्वेनासावुचितैव । इयत्यां प्रत्यक्षतयाति विपुलायामित्यर्थः। सलिलानां जलानां संपत्तौ लक्ष्म्यां सत्याभिति योजना। हे कासार, ‘कासारसरसी सरः’ इत्यमराद्भोः सरोवर, त्वमधुना शरत्काल आर्तानां तृषाक्लान्तानां जनानां तृषम् । पक्षे धनाद्याशां यदि सहसा झटिति न हरसीति संबन्धः। तहैिं निदाघे निदाघ उष्णोपगमःइत्यमराष्ट्रीष्म इत्यर्थः। चण्डांशौ चण्डास्तीक्ष्णा अंशवः किरणा यस्य तस्मिस्तिग्मरश्मौ । सूर्य इति यावत् । परितो न त्वेकदेशे । अङ्गारेति । अङ्गारवदतिदाहकत्वात्क्रूरतरातपविशेषा एवङ्गरास्तेषां निक-रान्समूहन्किरति । वर्षति सतीत्यर्थः । अत एव कृशीभूतस्त्वं केषां तां तृष्णांपरिहर्तासीत्यन्वयः । तदानीं त्वयि तृष्णोपशामकत्वस्य सुतरामसंभव इति भावः। तस्मात्त्वयैतादृशं विवेकं विधाय तादृग्दशातः प्रागेवार्थपरिपालनतत्परेण भाव्य-मिति हृदयम् । अत्राप्युक्ता एव नायकादयः ।  तत्रापि दृप्तत्वादविनयित्व एव सति तत्कालं तादृक्संवादश्रवणेन राज्ञि मूढत्वमवधार्यं तद्दत्तधनाद्यपि परित्यज्य गतेष्वर्थेषु स तदादानपरः पुनः किं चित्स्रामपूर्वकं समुद्वान्योकित एवोपदिश्यते—

अयि रोषमुरीकरोषि नो चे
त्किमपि त्वां प्रति वारिधे वदामः ।