पृष्ठम्:भामिनीविलासः.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
अन्योक्त्युल्लासः ।

जलपदवाच्यानाममृतानां जीवनानां च धारक मेवेत्यर्थः। एतेनाखिलपुरुषार्थदा नदक्षत्वं द्योतितम् । त्वम् । दवदहनेति । ‘दवदावौ वनारण्यवती’ इत्यमराह्वस्या- रण्यस्य संबन्धी यो दहनो व्तस्य जटाला जटा इव येन दीर्घतरा अंशविशेषास्तद्विशिष्टा ये ज्वालाः । ‘वह्रेर्द्धयोर्ज्वालकीलैः’ इत्यमरः । तेषां जालानि तैरा- समन्ताद्धतास्ताडिताः। त्वगादौ दग्धा इति यावत् । तेषामित्यर्थः । अत एव । परिगलितेति । च्युतलतानामत एव म्लायतां म्लायन्ति ग्लानिं प्राप्नुवन्ति ते म्लायन्तस्तेषाम् । म्लानानामित्यर्थः। एतादृशां भूरुहाणाम् । ‘वृक्षो महीरुहः शाखी’ इत्यमरावृक्षाणामिति यावत् । ‘षष्ठी चानादरे’ इति षष्ठी । ताननादृत्ये त्यर्थः । शैलेति । पर्वतशिखरेषु तोयं जलं बहु विपुलं वितरसि वर्षसि । पर्वतेषु हि भूयसी वृष्टिर्भवतीति प्रसिद्धमेव। अयं निरुक्तस्तावकीनस्त्वदीयः श्रीमदः संपदुन्मदः कः। आक्षेपार्थकोऽयं किंशब्दः। अनुचित एवेत्यर्थः । तस्मादस्मास्वेवा मृतवृष्टिः पात्रतया कार्येति तात्पर्यम्। इह स्थूललक्ष्यो नायकः । करुणो रसः । परिकरोऽप्यलंकारः । मालिनी वृत्तम्। तल्लक्षणं तूक्तमधस्तात् ॥

इत्थं शिष्यवचनं श्रुख पान्थान्योक्त्या श्रीगुरुस्तमाश्वासयति--

शृण्वन्पुरः परुषगर्जितमस्य हन्त
रे पान्थ विह्वलमना न मनागपि स्याः ।
विश्वार्तिवारणसमर्पितजीवनोऽयं
नाकर्णितः किमु सखे भवताम्बुवहः ॥ ३५ ॥

 ऋण्वन्निति । रे इति नीचसंबोधने। तेन निरुक्ताक्षेपस्त्रयानुचित एव विरचित इति सूचितम्। पान्थ पथिक। पक्षे हितबिज्ञासुत्वेन भो सन्मार्गगामिनित्यर्थः। त्वमस्य प्रकृतस्य मेघस्य । पक्षे गुरोर्मम । पुरोऽग्रभागे। परुषेति । परुषं भयंकरम् । पक्षे त्वय्यौदासीन्यमिव विधायान्यं प्रयुक्त्वेन दुःसहं च तद्भर्जितं स्तनितम् । पक्षे उच्चैर्भाषितं श्रुण्वन्सन्मनागपि ईषदपि विह्वलमना विकलान्तःकरणो न स्याः मा भवेत्यन्वयः । तत्र हेतुः । विश्वेति । हे सखे, भवता। एतेन सान्त्वनंव्यज्यते । विश्वेति । विश्वस्य सर्वस्याप्तिः पीडा तस्या वारणं दूरीकरणं तदर्थं समर्पितं जीवनमुदकम् । पक्षे प्राणधारणं येन स तथेत्यर्थः । परोपकारैकतत्पर इति यावत् । एतादृशोऽयं प्रत्यक्षोऽम्बुवाहो वारिदः। पक्षेऽम्बुशब्दवाच्यममृतपदश्लिष्टं कैवल्यं वहति ब्रह्मात्मबोधपर्यन्तोपदेशेन निर्वहतीवि तथा श्रीगुरुरित्यर्थः ।नाकर्णितः