सामग्री पर जाएँ

पृष्ठम्:भामिनीविलासः.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६७
शान्तविलासः ।

एवं चैतादृशोत्तमोत्तमकाव्यप्रचारार्थमुक्तेश्वरोपालम्भः संभवदुक्तिक एवेति व्यज्य- ते । अत्रापि कवित्ववीर एव रसः । अतिशयोक्तिः प्रतीपं लुप्तोपमा काव्यलिङ्ग परिकरस्तैर्मिलित्वा क्षीरनीरवत्संकरश्चालंकारः ॥

 अथ कवित्ववीररसावेशादेव कंचित्वप्रतिस्पर्धिनं पुरःस्थितं मया त्वदपेक्षया- प्यतिरमणीयतमं काव्यं क्रियत इति वदन्तमिव प्रकल्प्य तं प्रत्याचष्टे-

निर्माणे यदि मार्मिकोऽसि नितरामत्यन्तपाकद्रव-
न्मृद्धीकामधुमाधुरीमदपरीहारोद्भुराणां गिराम् ।
काव्यं तर्हि सखे सुखेन कथय त्वं संमुखे मादृशां
नो चेदुष्कृतमात्मना कृतमिव वान्ताद्वहिर्मा कृथाः ॥३०॥

 निर्माण इति । हे सखे । एतेन स्वस्थ प्रतिमल्लेऽपि सौहार्दप्रकाशकत्वेनाति- प्रौढत्वं व्यज्यते । त्वं यदि गिरा काव्यवाणीनां निर्माणे रचने नितरामयन्तम् । न तु यत्किचित् । तत्रापि मार्मिकोऽसि तद्रचनचातुरीमर्मज्ञोऽसीत्यर्थः । तर्हि मादृशां संमुखे मत्समक्ष पण्डितधुरंधराणां समक्षमित्यर्थः । सुखेन काव्यं कथ- येयन्वयः । एतेन खाग्रे काव्यप्रकाशनमलौकिकशक्तिमन्तरानुचितमेवेति योत्यते। ननु किमत्रालौकिकशक्त्या कविता हि शास्त्रव्युत्पत्तिमात्रसाध्येति तदाशयमनु- माय निरुक्तगिरो विशिनष्टि—अत्यन्तेति । अत्यन्तं खयमुन्मीलनपर्यन्तं न तु यत्किंचित् एतादृशो यः पाकः पक्वता ततो द्रवन्ती निरुक्तोद्भेदेन रसमुद्रिरन्ती एतादृशी या ‘मृद्दीका गोस्तनी द्राक्षा' इत्यमराड्राक्षाजातिविशेषो गोस्तनाकार एव तस्या यो मधुमाधुरीमदो मधु माक्षिकं मकरन्दो वा तद्वद्या माधुरी मधुरता तया यो मदः । गर्व इति यावत् । तस्य यः परीहारः परीभावस्तत्रोद्भुरा अग्रे- सरास्तासामित्यर्थः । एतेनालौकिकानन्तजन्मसंचितसुकृतपरिपाकैकजन्यतादृशक- वित्वप्रयोजकबीजीभूतशक्तिविशेषमन्तरा निरुक्तरीतिककाव्यकल्पनं नैवाल्पायास- साध्यमिति ध्वन्यते । उक्तवैपरीत्ये त्वतितूष्णींभाव एव त्वया विधेय इत्युपदेश- व्याजेन विनिन्दति-नो चेदित्यादि चरमचरणेन । नो चेन्निरुक्तसामर्थ्यं नास्ति चेत्तर्हि त्वमात्मना बुद्ध्या कृतं न त्वज्ञानात्संपन्नम् । एतेन व्यवहारे तस्य मौख्य- पादकत्वेनातिगोप्यत्ववद्भावककाव्येऽपि तत्त्वमेव त्वयावश्यं कर्तव्यमिति द्योत्यते। एतादृशं दुष्कृतं पापमिव । आत्मना त्वया कृतं काव्यमपि वान्तादन्तःकरणातु बहिर्वाग्द्वारा प्रकटं मा कृथाः नैव कुर्वियन्वयः । एतस्मादेतादृक्सामर्थ्यमिदानीं मय्येव नान्यत्रेयाकूतम् । अत्रोक्त एव रसः । प्रतीपोपमेऽलंकारौ ॥