सामग्री पर जाएँ

पृष्ठम्:भामिनीविलासः.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
भामिनीविलासे

 मधु द्राक्षेति । मधु माक्षिकमेव द्राक्षा । साहचर्यान्मधुरद्रव्यस्यैव प्रकृते सर्वस्य कविविवक्षितत्वाच । सुराद्रव्यस्य तु क्वापि तथात्वेनानुक्तत्वात्प्रत्युत दुर्ग- न्धत्वादिना दूरतोऽप्यतितरपराकरणीयत्वादनन्तकोटिशास्त्रनिन्दितत्वाचे नात्र भ्रान्त्यापि प्रसङ्गः । तद्दाक्षी मृद्वीकादिः प्रसिदैव । एतद्रयं बाबालसाधारणम् । अमृते तु तेषामश्रुतत्वेन कामाभावात् । साक्षात्प्रत्यक्षम् । तेन ‘अमृतं यज्ञशेषे स्यात्' इति विश्वोक्तगौणामृतव्यावृत्तिः । अमृतं पीयूषम् । इदं तु बालेतरसाधा- रणम् । तेन विशेषालम्भार्थोऽयमथशब्दः । वामाधरसुधा । ‘वामं सव्ये प्रतीपे च द्रविणे चातिसुन्दरे' इति विश्वात्स्त्रीत्वविवक्षायां टापि कृते वामेति रूपम् ।। तेन परमसुन्दरीत्यर्थः । तस्या याधरसुधा । अधरामृतमिति यावत् । इदं हि। बालानां तत्प्रयोजकाविर्भावाभावेनाविशेषयत, वृद्धानां तत्सत्त्वेऽपि तदुपोद्वलक- शक्तिविशेषशून्यत्वेन ‘वृद्धस्य तरुणी विषम्” इति वचनेन चाविषयत्वात्तरुणैक- विषयं ज्ञेयम् । अथवेति पदच्छेदे तु माशब्देन लक्ष्मीः। शिष्टं तु प्राग्वदेव । अत्राधरसुधेति पदे रूपकलुप्तोपमायलंकारविवक्षायामपि श्लेषादिवशात्सुधा- पदेन चूर्णोपस्थितिदोषस्त्वधरे लग्नताम्बूलभक्षणक्षणावच्छेदेन संबद्धा या सुधा चूर्णमिति शाकपार्थिवादिसमास तस्मिन्पक्षे समाश्रित्य यावत्स्त्रीगुणविशिष्टखर- मण्याः कमलाया वाधरसंपर्केण चूर्णस्याप्यमृताधिकमधुरिमासंपन्न इति शृङ्गाराति- शयध्वनेः समवमोषणीय इति तत्त्वम् । एवं च जीवन्मुक्तान विष्णुसायुज्यं संपाद्य तत्प्राशनकामनाव्यतिरेकस्यापि संभवाद्युक्तमेव तद्ब्रहणम् । सर्वासामप्य- तिसुन्दरीणां तन्मात्रावधित्वात् । एते पदार्थाश्चत्वारोऽपि प्रत्येकं वा । कदाचि- द्देशे काले वा । न तु सर्वदा । तत्रापि केषांचिज्जीवन्मुक्ताद्यधिकारिविशेषाणामेव । मुदं हर्ष यद्यपि न खलु विदधीरनैव कुवरन्नित्यर्थः । तथापि न क्षतिरित्यार्थि- कम् । तत्र मधुद्राक्षे पित्तोपहतरसनस्य सर्वस्य, अमृतवामाधरसुधे तु मिलिते चेजीवन्मुक्तानामेव, केवलवामाधरसुधा तु तादृशवृद्धस्यैवानादरविषय इति विभागो बोध्यः । अस्त्वेवम् , प्रकृते किमायातमित्यतस्तद्यनक्ति-ध्रुवमित्याद्युत्तरा- धेन । अहहेति खेदे। ते मन्दमतयो जीवन्तोऽपि मृतका ध्रुवं मृता एवं सन्तीति संबन्धः । ते के । येषां जगन्नाथभणितिर्जगन्नाथशर्मणः पण्डितरायस्य मम भणितिः । काव्यात्मकशब्दरचनेत्यर्थः । आनन्दं न जनयतीति योजना । यथा जीवन्मुक्तत्वं जीवेषु परमोत्तमकोटिरेवं जीवन्मृतत्वमपि चरमाधमकोटिरित्या- शयः । तस्मान्मत्काव्यानादरशीलास्तु पश्वादिभ्योऽप्यतिनिन्द्या एवेति भावः ।