पृष्ठम्:भामिनीविलासः.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४८
 

स्व वाचेति । भो नाथ अन्तर्यामिन् । एतेन निरुक्तकर्मादिप्रेरकत्वम् । अपि च ‘एष येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उद्मिनीषत एष उ एवासाधु कर्म कारयति तं यमधो निनीषते' इति श्रुत्युक्तमन्तयम्यधिदेवादिषु ‘तद्धर्मव्यपदेशात् इत्यधिकरणन्यायेन त्वय्येवेति योयते । वं निर्मलया विशुद्धया वेदरूपिण्यै- त्यर्थः । न तु बौद्धादिप्रणीतया तद्विरुद्धपौरुष्या । एतेन भ्रमप्रमादादिदोषवैधुर्यं ध्वन्यते । अत एव । सुधेति । वाचा वाण्या । यां शिक्षा निरुक्तपूर्वोत्तरकाण्डोपं- देशसरणिम् । एतेनावश्यादरणीयवं व्यज्यते । अदाः मह्यं जीवाय दत्तवानसी- त्यर्थः । तामहम् । अहंभावेति । देहाद्यहंतया व्याप्त इत्यर्थः । न च तत्रापि दुःखादुक्तशिक्षास्मृतिः स्यादिति दुःखसहस्रसत्त्वेऽपि मम निर्लज्जवादित्याश- येनात्मानं पुनर्विशिनष्टि—निस्रप इति । अत एव खप्नेऽपि न संस्पृशामीत्य- न्वयः । अत्र ‘संस्मरामि' इति पाठः साधीयान् । एवं तर्हि मया किं कर्तव्यमि- त्यत आह–इतीत्याद्युतरार्धेन । हे यदुपते इति साभिप्रायम् । उग्रसेनराज्यग्र- दत्वात् । तस्मात्त्वया निरतिशयदयानिधितया मदङ्गीकरणं स्वकीयखेन कृतमे- वेतः परं कथं त्यक्तुमुचितं स्यादिति तात्पर्यम् । ‘आगोऽपराधः' इत्यमरः । खीयेषु हस्तपादादिवदविममतास्पदेष्वित्यर्थः । ‘सखायौ' इति श्रुतेः खीयेषु संग्रहणं प्रसिद्धमेव । त्वत्तो मत्त इति पञ्चम्यौ । मत्त उन्मत्तः । अत्र काव्यलिङ्गं परिकरादिश्चालंकारः ॥

 एवं निरुपमां भगवतः सदयतां स्वस्य चोन्मत्ततां संस्मृत्य कृतघ्नवपरिहारार्थ- मितःपरं त्वया तन्नामैव स्मर्तव्यमिति स्वयमेव खात्मानं सनिर्वेदपरमसाधनसर्व- खवेनोपदिशति-

पातालं व्रज याहि वा सुरपुरीमारोह मेरोः शिरः
पारावारपरम्परास्तर तथाप्याशा न शान्तास्तव।
आधिव्याधिजरापराहत यदि क्षेमं निजं वाञ्छसि
श्रीकृष्णेति रसायनं रसय र शून्यैः किमन्यैः श्रमैः ॥६॥

 पातालं व्रजेति। ननु किं नामस्मरणेन, कर्मैवाग्निहोत्रादिकं कर्तव्यं, ततश्च दिव्यायेकविंशतिवर्गसुख भोक्तव्यं, पुनरपि मनुष्यशरीरे जाते तथैवेति स्रगादि- विषयसुखेतरः कोऽपि न पुमर्थ इति मीमांसकमतं प्रत्याचक्षाण इव खजीवं तद- वलम्बिवाशीवतयाभिमुखीकरोति–रे इति । नच स्वर्गादावाशानुपशान्तिः