नवेति । यथा हि लोके नवा शुक्लद्वितीयागतत्वेन नूतना । एतादृशी येन्दोश्चन्द्रस्य लेखा । एककलात्मकत्वेन रेखेत्यर्थः । सीतावत् शैवेति । शिवस्य परमेश्वरस्येमानि शैवानि ‘भूरम्भांस्यनलोऽनिलोऽम्बरमहनथो हिमांशुः पुमान्' इति दक्षिणमूर्ति- स्तोत्राद्युक्ताष्टवपुंषीत्यर्थः । ‘ला आदाने' इति धातोस्तानि लायाधेयतयादत्ते। गृह्णातीति यावत् । स शैवलः कालस्य सर्वाधारत्वद्वितीयतिथ्याख्यः कालविशेष एव। स एव शयनं तल्पनिव तत्रेत्यर्थः । शयिता दुर्लक्ष्यत्वादनतिप्रसादवत्त्वाचे निद्रितेव वर्तमानापि । तथा सुषमेति प्राग्वदेव । वर्धमानकलाबीजवत्वेन परमदर्शनीयत्वेन च निरतिशयशोभामात्रावशेषशालिन्यपीत्यर्थः । प्रियमादरेण स्वद्रभृतया कंचिद्देव- दत्तादिरूपं सखायमिति यावत् । मध्विति । मधुतुल्योऽस्तसमयावच्छिन्नत्वेनारक्त- वर्णवत्त्वान्माक्षिकविशेषसदृशो यो रविः सूर्यस्तेन सह यदीक्षण निरुक्तदेवदत्तक- कं खकर्मकमवलोकनं तेनेत्यर्थः । निरुक्तदर्शनस्य तदैव संभवात्तजन्य पुण्यरूपक- रणेनेति यावत् । सत्कुरुते सुखयति प्रदानेन परितोषयति तथेयमपीति संबन्धः । अत्र वकीयादिविरहिण्येव नायिका । सादरो नायकः । पूर्वार्धे विप्रलम्भोऽन्यत्र संभोगश्च शृङ्गारः । उपमालंकारः ॥ अथोकरीत्या निकटगतमपि श्रीराम सीता श्रीकृष्ण राधा वा विरहाग्निना दह्यमानमानसा प्रागत एव तज्ञामामृतमेवोच्चैः परिदेवनपूर्वकमुच्चारयन्ती सत्यपि कथमेतावन्तं कालमपि प्रेयानपि मामुपेक्षितवानेवास्यतश्चिरोपेक्षालक्षणकार्य लिङ्ग- कानुमानेन त्वय्यपरिचितत्वमेव मयाध्यवस्यत इत्याशयवती परिचयहीनेव पश्य- तीत्याह-
विरहेण विकलहृदया विलपन्ती दयित दयितेति। |
विरहेणेति । बाली द्वादशवर्षोंर्वषोडशवर्षप्राग्वयस्का । मुग्धेयर्थः । न तु मध्या । एतेनाति धैर्यवैधुर्यं ध्वन्यते । तत्रापि विरहेण खप्रेयो वियोगेन । न तु व्याध्या- दिना। तेन नायकस्यैव प्रकृतेऽपराधित्वेन तं प्रति स्वस्या औदासीन्यसाम्यसूचनं युकमेवेति व्यज्यते । विकलेति । विह्वलचित्तेति यावत् । अत एव दयितेति । वैकल्ये वीप्सा । तेन शोकातिभूमिः सूचिता । एतादृशं विलपन्ती सतीत्यर्थः । एतादृशी सा पूर्वोक्तनायिका । सविधे निकटे । आगतमपि प्राप्तमपि । एतेनाव- श्यपरिचरणीयत्वं सूचितम् । एतादृशं तम् । खकान्तमिति शेषः । परिचयेति ।