पृष्ठम्:भामिनीविलासः.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१११
शृङ्गारोल्लासः।

सूच्यते। तादात्म्यं भेदसहिष्णुरभेदः । पद्मरूपत्वमिति यावत् । किञ्चामृतस्य पीयूषस्य श्लेषान्मोक्षस्यापीत्यर्थः । भेदविगमोऽभेदः । साचीति । वलितग्रीवं मन्दहास्य इत्यर्थः । सर्वदा न तु क्षणमात्रम् । तेनोक्तनायिकामुखवीक्षणेऽपि परमपुमर्थत्वं किं पुनस्तदाखादन इति वर्तमानकालेऽपि त्रैगुण्यसत्त्वं च द्योतितम् । आसीदभूदिति संबन्धः । इह स्वकीया परकीया वा मध्याभिसारिका नायिका । मुदितो नायकः । संभोगः शृङ्गारः । क्रामिकं रूपकं चालंकारः ॥

 एवं वर्णनपूर्वकं तद्रात्रौ यथेच्छ विहारं विधाय प्रातःकाले किंचित्कार्यवशायो- जनावगेव प्रवस्य सायं समागतं श्रीरामं श्रीकृष्णं वा यामचतुष्टय विरस्याप्यसहि- ष्णुतया शैवलशय्यायां स्मरवैश्वानरदाहापहानार्थं शयाना सीता राधा वा लोकोत्त- रग्लानिवशात्सरभसव्युत्थानाद्यशक्तत्वेन सरसविलोकनै रेवोपचरतीति कविः संव- र्णयति--

शयिता शैवलशयने सुषमाशेषा नवेन्दुलेखेव ।
प्रियमागतमपि सविधे सत्कुरुते मधुरवीक्षणेनैव ॥ ६६ ॥

 शयितेति । प्रकृतनायिकेत्यार्थिकम् । शैवलेति। ‘जलनीली तु शैवालं शैवलः इत्यमराच्छैवलस्य जलनील्या यच्छयनं कुसुमादिवद्विरहाग्निसंतापशान्त्यर्थं तदुपक- ल्पितं तल्पमित्यर्थः । एतेन तत्रातिशीतलत्वमृदुत्वाभ्यामुत्तोपायखयोग्यत्वं व्यज्यते। अत्र शयिता निद्राणी सतीत्यर्थः । न तूपविष्टा नापि प्रसुप्ता । अशक्तिचिन्तौत्क- ट्येन तदसंभवात् । एवं चोक्तवियोगस्यातुलासह्यत्वं सूचितम् । अत एव । सुष- मेति । ‘सुषमा परमा शोभा' इत्यमरादलौकिकसौन्दर्यशोभैव शेषोऽवशिष्टोंऽशो यस्याः सा तथा । एतेन निरुपमकाश्यं ध्वन्यते । एतादृश्यपि सविधे निकट एव, न तु दूरम् । आगतमप्युपगतमपि । तत्रापि प्रियं खप्रीतिविषयं नायकम्, न तु मानाद्यवस्थावशादनारणीयं कान्त मिति यावत् । मधुरेति । चन्द्रमरीचिकामृतव- त्कान्तचक्षुश्चकोरैकाखादनीयव ध्वननार्थ मधुरपदम् । एतादृशं यद्वीक्षणमतिप्रीति- रूपविशषेण यदीक्षणमवलोकनं तेनैव । न तु प्रत्युद्गमनादिव्यापारान्तरैः । एतेन जीवितमात्रत्वेनानुरागातिशयो ध्योत्यते । परमासामर्थ्यव्यञ्जकत्वादेकवचनान्तपाठ एवेष्टः । यदि तु प्रेयोदर्शनोत्तरं प्रतीक्षणोज्जीवनाधिक्येन तद्वदनसौन्दर्यदिदृक्षा- धिक्येन च वीक्षणे पानकन्यायेन विरम्य विरम्यावादनीयनायकलावण्यलालस्येन भूयस्त्वमपि गुणत्वेनैव संभाव्यते तदा भवतु नाम बहुवचनान्त एव पाठः। वीक्षणै- रिति । सत्कुरुत उपचरति खादरविषयीकरोतीत्यन्वयः। तत्र योग्यमुपमानमाह-