पृष्ठम्:भामहालङ्कारः.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः परिच्छेदः । माधुर्यमभिवाञ्छन्तः प्रसादं च सुमेधसः । . समासवन्ति भूयांसि न पदानि प्रयुञ्जते ।। १ ॥ केचिदाजोऽभिधित्सन्तः समस्यन्ति बहून्यपि । यथा मन्दारकुसुमरेणुपिञ्जरितालका ॥ २ ॥ श्रव्यं नातिसमस्ताथै काव्यं मधुरमिष्यते । आविहदङ्गनाबालप्रतीतार्थ प्रसादवत् ॥ ३ ॥ अनुप्रासः संयमको रूपक दीपकोपमे ।। इति वाचामलङ्काराः पञ्चैत्राऽन्यैरुदाहृताः ॥ ४ ॥ सरूपवर्णविन्यासमनुप्रासं प्रचक्षते । । किंतया चिन्तया कान्ते नितान्तेति यथोदितम् ।।५।। ग्राम्यानुप्रासमन्यत्तु मन्यन्ते सुधियोऽपरे । से लोलमालानीलालिकुलकुलगलो बलः ॥ ६ ॥ नानार्थवन्तोऽनुप्रासा न चाप्यसदृशाक्षराः ।। युक्त्यानया मध्यमय जायन्ते चारवो गिरः ॥ ७ ॥ लाटीयमप्यनुप्रासमिहेच्छन्त्यपरे यथा । दृष्टिं दृष्टिसुखां धेहि चन्द्रश्चन्द्रमुखोदितः ॥ ८ ॥ आदिमध्यान्तयमकं पादाभ्यास तथांवली। समस्तपाद्यमकमित्येतत् पच्चधोग्यते ॥ ९ ॥ |. .अस्य अपरं नाम काव्यालङ्कारः इति।