पृष्ठम्:भामती.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[स्त्र.१.पा.१.ख.४]
[भामती]
[८४]

नियेगविषयस्य ज्ञानस्य भावार्थतया ऽनष्ठयता, तद्विषयस्य स्वात्मनः खरूपस्ताविनिश्चितिरारोपितङ्गावस्य त्वन्यस्य निरुपकत्वे तेन तन्निरुपितं न स्यात् । तस्मात्ताद्वगात्म प्रतिपत्तिविधिपरेभ्ये वेदान्तेभ्यस्तादृगात्मविनिश्चयः । तदेत त्सर्वमाच । “यद्यपी'ति । विधिपरेभ्येो ऽपि वस्तुतत्त्वविनिय इत्यच निदर्शनमुक्त, “यथा यूपे'ति । यूपे पशु बक्षातीति बन्धनाय विनियुक्ती यूपे तस्यालैौकिकत्वात् केोसै यूप इ त्वपेशिते खादिरो यूपेो भवति यूपं तक्षति यूपमष्टा स्रीकरोतीत्यादिभिर्वाकस्तशणादिविधिपरैरपि संस्काराविष्टं विशिष्टसंस्थानं दारु यूप इति गम्यते । एवमाहवनीयादये। प्यवगन्तव्याः । प्रवतिनिवृत्तिपरस्य शाखत्वं न खरूपपर स्य, कार्यएव संबन्धे न खरूप इति चेतुद्ययं भाव्यवाक्ने। पपादितं “प्रवृत्तिनिवृत्तिप्रयोजनत्वादित्यादिना “तत्सामा न्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यादित्यन्तेन । न च ख लन्चं कार्ये नियेोज्यमधिकारिणमनुष्ठातारमन्तरेणेति नि येज्यभेदमाच् । “सति च विधिपरत्व"इति । ब्रह्म वेद ब्रह्रीव भवतीति सिद्दवदर्थवादावगतस्यापि ब्रह्मभवनस्य नियेोज्यविशेषाकाङ्कायां ब्रह्मबुभूषेोर्नियेोज्यविशेषस्य राचि सत्त्रन्यायेन प्रतिलम्भः । पिण्डपिढयज्ञन्यायेन तु खर्ग कामस्य नियोज्यस्य कल्पनायामर्थवादस्यासमवेतार्थतया त्यन्तपरोक्षा वृत्तिः स्यादिति । ब्रह्मभावश्वाम्ऋतत्वमिति “श्र- ऋतत्वकामस्ये'युक्तम् । अमृतत्वं चान्तत्वादेव न कृत कत्वेन शक्यमनित्यमनुमातुम्, श्रागमविरोधादिति भावः । उतन धर्मब्रह्मशानयेर्विलक्षण्येन विध्यविषयत्वं चेदयति । “नन्चि'ति । परिहरति । “नात्येव"मिति । अत्र चात्म

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/९१&oldid=134783" इत्यस्माद् प्रतिप्राप्तम्