पृष्ठम्:भामती.djvu/९२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


[भामती]
[श्र-१ पा१ ख.४]
[८५]

दर्शनं न विधेयम् । तद्वि दृशेरुपलब्धिवचनत्वात् श्रावणं वा स्यात् प्रत्यक्ष वा । प्रत्यक्षामपि लैकिकमच्प्रत्यये वा भावनाप्रकर्षपर्यन्तमजं वा । तत्र श्रावणं न विधेयं, खा ध्याय(१) विधिनैवास्य प्रापितत्वात्, कर्मश्रवणवत् । नापि लै क्रिक प्रत्यक्ष, तस्य नैसर्गिकत्वात । न चैपनिषदात्मवि षयं भावनाधेयवैशद्य विधेयं, तस्येापासनाविधानादेव वा जिनवदन्नृनिष्पादितत्वात् । तस्मादैौपनिषदात्मेोपासना ऽस्कृत त्वकामं नियेोज्यं प्रति विधीयते । द्रष्टव्य इत्यादयस्तु वि धिस्रुरूपा न विधय इति । तदिदमुक्त “तदुपासनाचे"ति । अर्थवत्तया मननादिप्रतीत्या चेत्यस्य शेषः प्रपञ्चे निगद व्याख्यात तदेकदेशिमतं दूषयति । “अचाभिधीयते” । “न,” ए कदेशिमतम्, कुतः, “कर्मब्रह्मविद्याफलयेोर्वलक्षण्यात्' । पु एयापुण्यकर्मफले सुखदुःखे तत्र मनुष्यलेोकमारभ्याब्रह्मले कात्सुखस्य तारतम्यम् अधिकेोत्कर्षः (२) । एवं मनुष्यले क्रमारभ्य दुःखतारतम्यमा चावोचिलेोकात्, तञ्च सर्वे का यें च विनाशि च । श्रात्यन्तिकं त्वशरीरत्वमनतिशयं ख भावसिद्दतया नित्यमकार्यमात्मज्ञानस्य फलम् । तद्धि फल मेमव फलम् । अविद्यापनयमात्रेणाविर्भावात् । एतदुक्तं भ वति । त्वयाप्युपासनाविधिपरत्वं वेदान्तानामभ्युपगच्छता नित्यशुद्धबुद्धत्वादिरूपब्रह्मात्मता जीवस्य खाभाविकी वेदा न्तगम्या ऽऽख्थीयते । सा चेपासनाविषयस्य विधेर्न फलं.


(१) स्वाध्यायाध्ययन-पा० २ ॥

(२) अधिकाधिकोत्कर्षः-पा० १ । ।२ । ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/९२&oldid=134784" इत्यस्माद् पुनः प्राप्तिः